बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यात्मागृह्यो न गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥
इदानीं विचार्यते शास्त्रार्थविवेकप्रतिपत्तये । यत आकुलानि हि वाक्यानि दृश्यन्ते — ‘यावज्जीवमग्निहोत्रं जुहुयात्’ ( ? ) ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’ ( ? ) ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (ई. उ. २) ‘एतद्वै जरामर्यं सत्रं यदग्निहोत्रम्’ (शत. ब्रा. १२ । ४ । १ । १) इत्यादीनि ऐकाश्रम्यज्ञापकानि ; अन्यानि च आश्रमान्तरप्रतिपादकानि वाक्यानि ‘विदित्वा व्युत्थाय प्रव्रजन्ति’ (बृ. उ. ३ । ५ । १) ‘ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत् यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा’ (जा. उ. ४) इति, ‘द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः, क्रियापथश्चैव पुरस्तात्सन्न्यासश्च, तयोः सन्न्यास एवातिरेचयति’ ( ? ) इति, ‘न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः’ (तै. ना. १० । ५) इत्यादीनि । तथा स्मृतयश्च — ‘ब्रह्मचर्यवान्प्रव्रजति’ (आ. ध. २ । २१ । ८ । १०) ‘अविशीर्णब्रह्मचर्यो यमिच्छेत्तमावसेत्’ (व. ८ । २ ? ) ‘तस्याश्रमविकल्पमेके ब्रुवते’ (गौ. ध. ३ । १) ; तथा ‘वेदानधीत्य ब्रह्मचर्येण पुत्रपौत्रानिच्छेत्पावनार्थं पितॄणाम् । अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत्’ (मो. ध. १७५ । ६)‘प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्’ (मनु. ६ । ३८) इत्याद्याः । एवं व्युत्थानविकल्पक्रमयथेष्टाश्रमप्रतिपत्तिप्रतिपादकानि हि श्रुतिस्मृतिवाक्यानि शतश उपलभ्यन्त इतरेतरविरुद्धानि । आचारश्च तद्विदाम् । विप्रतिपत्तिश्च शास्त्रार्थप्रतिपत्तॄणां बहुविदामपि । अतो न शक्यते शास्त्रार्थो मन्दबुद्धिभिर्विवेकेन प्रतिपत्तुम् । परिनिष्ठितशास्त्रन्यायबुद्धिभिरेव हि एषां वाक्यानां विषयविभागः शक्यते अवधारयितुम् । तस्मात् एषां विषयविभागज्ञापनाय यथाबुद्धिसामर्थ्यं विचारयिष्यामः ॥

ससंन्यासमात्मज्ञानममृतत्वसाधनमित्युपपाद्य संन्यासमधिकृत्य विचारमवतारयति —

इदानीमिति ।

तत्र तत्र प्रागेव विचारितत्वात्किं पुनर्विचारेणेत्याशङ्क्याऽऽह —

शास्त्रार्थेति ।

विरक्तस्य संन्यासो ज्ञानस्यान्तरङ्गसाधनं ज्ञानं तु केवलममृतत्वस्येति शास्त्रार्थे विवेकरूपा प्रतिपत्तिरपि प्रागेव सिद्धेति किं तदर्थेन विचारारम्भेणेत्याशङ्क्याऽऽह —

यत इति ।

अतो विचारः कर्तव्यो नान्यथा शास्त्रार्थविवेकः स्यादित्युपसंहारार्थो हिशब्दः ।

वाक्यानामाकुलत्वमेव दर्शयति —

यावदिति ।

यदग्निहोत्रमित्यादीनीत्यादिशब्दादैकाश्रम्यं त्वाचार्याः प्रत्यक्षविधानाद्गार्हस्थ्यस्येत्यादिस्मृतिवाक्यं गृह्यते ।

कथमेतावता वाक्यानि व्याकुलानीत्याशङ्क्याऽऽह —

अन्यानि चेति ।

विदित्वा व्युत्थाय भिक्षाचर्यं चरन्तीति वाक्यं पाठक्रमेण विद्वत्संन्यासपरमर्थक्रमेण तु विविदिषासंन्यासपरमात्मानमेव लोकमिच्छन्तः प्रव्रजन्तीति तु विविदिषासंन्यासपरमेवेति विभागः ।

क्रमसंन्यासपरां श्रुतिमुदाहरति —

ब्रह्मचर्यमिति ।

अक्रमसंन्यासविषयं वाक्यं पठति —

यदि वेति ।

कर्मसंन्यासयोः कर्मसंन्यासस्याऽऽधिक्यप्रदर्शनपरां श्रुतिं दर्शयति —

द्वावेवेति ।

अनुनिष्क्रान्ततरौ शास्त्रे क्रमेणाभ्युदयनिःश्रेयसोपायत्वेन पुनःपुनरुक्तावित्यर्थः ।

ज्ञानद्वारा संन्यासस्य मोक्षोपायत्वे श्रुत्यन्तरमाह —

न कर्मणेति ।

’तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्’ इत्यादिवाक्यमादिशब्दार्थः ।

यथा श्रुतयस्तथा स्मृतयोऽप्याकुला दृश्यन्त इत्याह —

तथेति ।

तत्राक्रमसंन्यासे स्मृतिमादावुदाहरति —

ब्रह्मचर्यवानिति ।

यथेष्टाश्रमप्रतिपत्तौ प्रमाणभूतां स्मृतिं दर्शयति —

अविशीर्णेति ।

आश्रमविकल्पविषयां स्मृतिं पठति —

तस्येति ।

ब्रह्मचारी षष्ठ्यर्थः ।

क्रमसंन्यासे प्रमाणमाह —

तथेति ।

तत्रैव वाक्यान्तरं पठति —

प्राजापात्यमिति ।

सर्ववेदसं सर्वस्वं दक्षिणा यस्यां तां निर्वर्त्येत्यर्थः । आदिपदेन मुण्डा निस्तन्तवश्चेत्यादिवाक्यं गृह्यते । इत्याद्याः स्मृतयश्चेति पूर्वेण संबन्धः ।

व्याकुलानि वाक्यानि दर्शितान्युपसंहरति —

एवमिति ।

इतश्च कर्तव्यो विचार इत्याह —

आचारश्चेति ।

श्रुतिस्मृतिविदामाचारः सविरुद्धो लक्ष्यते । केचिद्ब्रह्मचर्यादेव प्रव्रजन्ति । अपरे तु तत्परिसमाप्य गार्हस्थ्यमेवाऽऽचरन्ति । अन्ये तु चतुरोऽप्याश्रमान्क्रमेणाऽऽश्रयन्ते । तथा च विना विचारं निर्णयासिद्धिरित्यर्थः ।

इतश्चास्ति विचारस्य कार्यतेत्याह —

विप्रतिपत्तिश्चेति ।

यद्यपि बहुविदः शास्त्रार्थप्रतिपत्तारो जैमिनिप्रभृतयस्तथाऽपि तेषां विप्रतिपत्तिरुपलभ्यते केचिदूर्ध्वरेतस आश्रमाः सन्तीत्याहुर्न सन्तीत्यपरे । तत्कुतो विचारादृते निश्चयसिद्धिरित्यर्थः ।

अथ केषाञ्चिदन्तरेणापि विचारं शास्त्रार्थो विवेकेन प्रतिभास्यति तत्राऽऽह —

अत इति ।

श्रुतिस्मृत्याचारविप्रतिपत्तेरिति यावत् ।

कैस्तर्हि शास्त्रार्थो विवेकेन ज्ञातुं शक्यते तत्राऽऽह —

परिनिष्ठितेति ।

नानाश्रुतिदर्शनादिवशादुपपादितं विचारारम्भमुपसंहरति —

तस्मादिति ।