बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यात्मागृह्यो न गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥
चतुर्ष्वपि प्रपाठकेषु एक आत्मा तुल्यो निर्धारितः परं ब्रह्म ; उपायविशेषस्तु तस्याधिगमे अन्यश्चान्यश्च ; उपेयस्तु स एव आत्मा, यः चतुर्थे — ‘अथात आदेशो नेति नेति’ (बृ. उ. २ । ३ । ६) इति निर्दिष्टः ; स एव पञ्चमे प्राणपणोपन्यासेन शाकल्ययाज्ञवल्क्यसंवादे निर्धारितः, पुनः पञ्चमसमाप्तौ, पुनर्जनकयाज्ञवल्क्यसंवादे, पुनः इह उपनिषत्समाप्तौ । चतुर्णामपि प्रपाठकानाम् एतदात्मनिष्ठता, नान्योऽन्तराले कश्चिदपि विवक्षितोऽर्थः — इत्येतत्प्रदर्शनाय अन्ते उपसंहारः — स एष नेति नेत्यादिः । यस्मात् प्रकारशतेनापि निरूप्यमाणे तत्त्वे, नेति नेत्यात्मैव निष्ठा, न अन्या उपलभ्यते तर्केण वा आगमेन वा ; तस्मात् एतदेवामृतत्वसाधनम् , यदेतत् नेति नेत्यात्मपरिज्ञानं सर्वसन्न्यासश्च इत्येतमर्थमुपसञ्जिहीर्षन्नाह — एतावत् एतावन्मात्रम् यदेतत् नेति नेत्यद्वैतात्मदर्शनम् ; इदं च अन्यसहकारिकारणनिरपेक्षमेव अरे मैत्रेयि अमृतत्वसाधनम् । यत्पृष्टवत्यसि — यदेव भगवान्वेद तदेव मे ब्रूह्यमृतत्वसाधनमिति, तत् एतावदेवेति विज्ञेयं त्वया — इति ह एवं किल अमृतत्वसाधनमात्मज्ञानं प्रियायै भार्यायै उक्त्वा याज्ञवल्क्यः — किं कृतवान् ? यत्पूर्वं प्रतिज्ञातम् ‘प्रव्रजिष्यन्नस्मि’ (बृ. उ. ४ । ५ । २) इति, तच्चकार, विजहार प्रव्रजितवानित्यर्थः । परिसमाप्ता ब्रह्मविद्या सन्न्यासपर्यवसाना । एतावान् उपदेशः, एतत् वेदानुशासनम् , एषा परमनिष्ठा, एष पुरुषार्थकर्तव्यतान्त इति ॥

प्रत्यध्यायमन्यथाऽन्यथा प्रतिपादनादात्मनः सविशेषत्वमाशङ्क्य स एष इत्यादेस्तात्पर्यमाह —

चतुर्ष्वपीति ।

केन प्रकारेण तस्य तुल्यत्वमित्याशङ्क्याऽऽह —

परं ब्रह्मेति ।

अध्यायभेदस्तर्हि कथमित्याशङ्क्याऽऽह —

उपायेति ।

उपायभेदवदुपेयभेदोऽपि स्यादित्याशङ्क्याऽऽह —

उपेयस्त्विति ।

चातुर्थिकादर्थात्पाञ्चमिकस्यार्थस्य भेदं व्यावर्तयति —

स एवेति ।

प्राणपणोपन्यासेन मूर्धा ते विपतिष्यतीति मूर्धपातोपन्यासात्प्राणाः पणत्वेन गृहीता इति गम्यते । तेन शाकल्यब्राह्मणेन निर्विशेषः प्रत्यगात्मा निर्धारित इत्यर्थः ।

विज्ञानमानन्दं ब्रह्मेत्यादावुक्तं स्मारयति —

पुनरिति ।

पञ्चमसमाप्तौ पुनर्विज्ञानमित्यादिना स एव निर्धारित इति योजना ।

कूर्चब्राह्मणादावपि स एवोक्त इत्याह —

पुनर्जनकेति ।

अस्मिन्नपि ब्राह्मणे स एवोक्त इत्याह —

पुनरिहेति ।

किमिति पूर्वत्र तत्र तत्रोक्तस्य निर्विशेषस्याऽऽत्मनोऽवसाने वचनमित्याशङ्क्याऽऽह —

चतुर्णामपीति ।

पौर्वापर्यपर्यालोचनायामुपनिषदर्थो निर्विशेषमात्मतत्त्वमित्युपपाद्य वाक्यान्तरमवतार्य व्याकरोति —

यस्मादित्यादिना ।

इति होक्त्वेत्यादिवाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे —

यत्पृष्टवत्यसीत्यादिना ।

ब्राह्मणार्थमुपसंहरति —

परिसमाप्तेति ।

तथाऽप्युपदेशान्तरं कर्तव्यमस्तीत्याशङ्क्याऽऽह —

एतावानिति ।

किमत्र प्रमाणमिति तदाह —

एतदिति ।

तथाऽपि परमा निष्ठा संन्यासिनो वक्तव्येति चेन्नेत्याह —

एषेति ।

आत्मज्ञाने ससंन्यासे सत्यपि पुरुषार्थान्तरं कर्तव्यमस्तीत्याशङ्क्याह —

एष इति ।

इतिशब्दो ब्राह्मणसमाप्त्यर्थः ।