बृहदारण्यकोपनिषद्भाष्यम्
चतुर्थोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं जिघ्रति तदितर इतरं रसयते तदितर इतरमभिवदति तदितर इतरं शृणोति तदितर इतरं मनुते तदितर इतरं स्पृशति तदितर इतरं विजानाति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयाद्येनेदं सर्वं विजानाति तं केन विजानीयात्स एष नेति नेत्यात्मागृह्यो न गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥
यावज्जीवश्रुत्यादिवाक्यानामन्यार्थासम्भवात् क्रियावसान एव वेदार्थः ; ‘तं यज्ञपात्रैर्दहन्ति’ ( ? ) इत्यन्त्यकर्मश्रवणात् ; जरामर्यश्रवणाच्च ; लिङ्गाच्च ‘भस्मान्तं शरीरम्’ (ई. उ. १७) इति ; न हि पारिव्राज्यपक्षे भस्मान्तता शरीरस्य स्यात् । स्मृतिश्च — ‘निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिंज्ञेयो नान्यस्य कस्यचित्’ (मनु. २ । १६) इति ; स मन्त्रकं हि यत्कर्म वेदेन इह विधीयते, तस्य श्मशानान्ततां दर्शयति स्मृतिः ; अधिकाराभावप्रदर्शनाच्च — अत्यन्तमेव श्रुत्यधिकाराभावः अकर्मिणो गम्यते । अग्न्युद्वासनापवादाच्च, ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’ (तै. सं. १ । ५ । २ । १) इति । ननु व्युत्थानादिविधानात् वैकल्पिकं क्रियावसानत्वं वेदार्थस्य — न, अन्यार्थत्वात् व्युत्थानादिश्रुतीनाम् ; ‘यावज्जीवमग्निहोत्रं जुहोति’ ( ? ) ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’ ( ? ) इत्येवमादीनां श्रुतीनां जीवनमात्रनिमित्तत्वात् यदा न शक्यते अन्यार्थता कल्पयितुम् , तदा व्युत्थानादिवाक्यानां कर्मानधिकृतविषयत्वसम्भवात् ; ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’ (ई. उ. २) इति च मन्त्रवर्णात् , जरया वा ह्येवास्मान्मुच्यते मृत्युना वा — इति च जरामृत्युभ्यामन्यत्र कर्मवियोगच्छिद्रासम्भवात् कर्मिणां श्मशानान्तत्वं न वैकल्पिकम् ; काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति व्युत्थानाद्याश्रमान्तरविधानं नानुपपन्नम् । पारिव्राज्यक्रमविधानस्य अनवकाशत्वमिति चेत् , न, विश्वजित्सर्वमेधयोः यावज्जीवविध्यपवादत्वात् ; यावज्जीवाग्निहोत्रादिविधेः विश्वजित्सर्वमेधयोरेव अपवादः, तत्र च क्रमप्रतिपत्तिसम्भवः — ‘ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भूत्वा प्रव्रजेत्’ (जा. उ. ४) इति । विरोधानुपपत्तेः ; न हि एवंविषयत्वे पारिव्राज्यक्रमविधानवाक्यस्य, कश्चिद्विरोधः क्रमप्रतिपत्तेः ; अन्यविषयपरिकल्पनायां तु यावज्जीवविधानश्रुतिः स्वविषयात्सङ्कोचिता स्यात् ; क्रमप्रतिपत्तेस्तु विश्वजित्सर्वमेधविषयत्वात् न कश्चिद्बाधः ॥

विचारकर्तव्यतामुक्त्वा पूर्वपक्षं गृह्णाति —

यावदित्यादिना ।

श्रुत्यादीत्यादिशब्देन कुर्वन्नित्यादिमन्त्रवादो गृह्यते ।

ऐकाश्रम्ये हेत्वन्तरमाह —

तमिति ।

एतद्वै जरामर्यं सत्रं यदग्निहोत्रमिति श्रुतेश्च पारिव्राज्यासिद्धिरित्याह —

जरेति ।

तत्रैव हेत्वन्तरमाह —

लिङ्गाच्चेति ।

पारिव्राज्यपक्षेऽपि तदुपपत्तिमाशङ्क्याऽऽह —

न हीति ।

इतश्च नास्ति पारिव्राज्यमित्याह —

स्मृतिश्चेति।

तस्यास्तात्पर्यमाह —

समन्त्रकं हीति।

न्यायस्य कस्यचिदित्यत्र सूचितमर्थं कथयति —

अधिकारेति ।

गृहस्थस्य पारिव्राज्याभावे हेत्वन्तरमाह —

अग्नीति ।

पूर्वपक्षमाक्षिपति —

नन्विति ।

उभयविधिदर्शने षोडशीग्रहणाग्रहणवदधिकारिभेदेन विकल्पो युक्तो न तु क्रियावसान एव वेदार्थ इति पक्षपाते निबन्धनमस्तीत्यर्थः ।

तुल्यविधिद्वयदर्शने हि विकल्पो भवत्यत्र तु सावकाशानवकाशत्वेनातुल्यत्वान्नैवमित्याह —

नान्यार्थत्वादिति ।

तदेव स्फुटयति —

यावज्जीवमित्यादिना ।

कर्मानधिकृतविषयत्वान्न वैकल्पिकमिति संबन्धः । क्रियावसानत्वं वेदार्थस्येति शेषः ।

तत्रैव हेत्वन्तराण्याह —

कुर्वन्नित्यादिना ।

न वैकल्पिकमित्यत्र पूर्ववदन्वयः ।

व्युत्थानादिवाक्यानां कथमनधिकृतविषयत्वमित्याशङ्क्याऽऽह —

काणेति ।

अनधिकृतविषयत्वं तेषामशक्यं वक्तुं ब्रह्मचर्यं समाप्येत्यादावधिकृतविषये क्रमदर्शनादिति शङ्कते —

पारिव्राज्येति ।

गत्यन्तरं दर्शयन्नुत्तरमाह —

न विश्वजिदिति ।

यावज्जीवमग्निहोत्रं जुहोतीत्युत्सर्गस्तस्यापवादो विश्वजित्सर्वमेधौ तदनुष्ठाने सर्वस्वदानादेव साधनसंपद्विरहात्पारिव्राज्यस्यावश्यम्भावित्वादतस्तद्विषयं क्रमविधानमित्यर्थः ।

तदेव स्फुटयति —

यावज्जीवेति ।

कथं क्रमविधेरेवंविषयत्वं कल्पकाभावादित्याशङ्क्याऽऽह —

विरोधानुपपत्तेरिति ।

गृहस्थस्यापि विरक्तस्य पारिव्राज्यमिति किमिति क्रमविषयो नेष्यते तत्राऽऽह —

अन्यविषयेति ।

क्रमविधेरपि त्वत्पक्षे संकोचः स्यादित्याशङ्क्याऽऽह —

क्रमप्रतिपत्तेस्त्विति ।