विचारकर्तव्यतामुक्त्वा पूर्वपक्षं गृह्णाति —
यावदित्यादिना ।
श्रुत्यादीत्यादिशब्देन कुर्वन्नित्यादिमन्त्रवादो गृह्यते ।
ऐकाश्रम्ये हेत्वन्तरमाह —
तमिति ।
एतद्वै जरामर्यं सत्रं यदग्निहोत्रमिति श्रुतेश्च पारिव्राज्यासिद्धिरित्याह —
जरेति ।
तत्रैव हेत्वन्तरमाह —
लिङ्गाच्चेति ।
पारिव्राज्यपक्षेऽपि तदुपपत्तिमाशङ्क्याऽऽह —
न हीति ।
इतश्च नास्ति पारिव्राज्यमित्याह —
स्मृतिश्चेति।
तस्यास्तात्पर्यमाह —
समन्त्रकं हीति।
न्यायस्य कस्यचिदित्यत्र सूचितमर्थं कथयति —
अधिकारेति ।
गृहस्थस्य पारिव्राज्याभावे हेत्वन्तरमाह —
अग्नीति ।
पूर्वपक्षमाक्षिपति —
नन्विति ।
उभयविधिदर्शने षोडशीग्रहणाग्रहणवदधिकारिभेदेन विकल्पो युक्तो न तु क्रियावसान एव वेदार्थ इति पक्षपाते निबन्धनमस्तीत्यर्थः ।
तुल्यविधिद्वयदर्शने हि विकल्पो भवत्यत्र तु सावकाशानवकाशत्वेनातुल्यत्वान्नैवमित्याह —
नान्यार्थत्वादिति ।
तदेव स्फुटयति —
यावज्जीवमित्यादिना ।
कर्मानधिकृतविषयत्वान्न वैकल्पिकमिति संबन्धः । क्रियावसानत्वं वेदार्थस्येति शेषः ।
तत्रैव हेत्वन्तराण्याह —
कुर्वन्नित्यादिना ।
न वैकल्पिकमित्यत्र पूर्ववदन्वयः ।
व्युत्थानादिवाक्यानां कथमनधिकृतविषयत्वमित्याशङ्क्याऽऽह —
काणेति ।
अनधिकृतविषयत्वं तेषामशक्यं वक्तुं ब्रह्मचर्यं समाप्येत्यादावधिकृतविषये क्रमदर्शनादिति शङ्कते —
पारिव्राज्येति ।
गत्यन्तरं दर्शयन्नुत्तरमाह —
न विश्वजिदिति ।
यावज्जीवमग्निहोत्रं जुहोतीत्युत्सर्गस्तस्यापवादो विश्वजित्सर्वमेधौ तदनुष्ठाने सर्वस्वदानादेव साधनसंपद्विरहात्पारिव्राज्यस्यावश्यम्भावित्वादतस्तद्विषयं क्रमविधानमित्यर्थः ।
तदेव स्फुटयति —
यावज्जीवेति ।
कथं क्रमविधेरेवंविषयत्वं कल्पकाभावादित्याशङ्क्याऽऽह —
विरोधानुपपत्तेरिति ।
गृहस्थस्यापि विरक्तस्य पारिव्राज्यमिति किमिति क्रमविषयो नेष्यते तत्राऽऽह —
अन्यविषयेति ।
क्रमविधेरपि त्वत्पक्षे संकोचः स्यादित्याशङ्क्याऽऽह —
क्रमप्रतिपत्तेस्त्विति ।