तदेव विचारद्वारा श्रुतिस्मृतीनामापाततो विरुद्धानामविरोधं प्रतिपद्याथ वंशम् इत्यस्यार्थमाह —
अथेति ।
साङ्गोपाङ्गस्य सफलस्याऽऽत्मविज्ञानस्य प्रवचनानन्तर्यमथशब्दार्थमाह —
अनन्तरमिति ।
यथा प्रथमान्तः शिष्यो गुरुस्तु पञ्चम्यन्त इति चतुर्थान्ते व्याख्यातं तथाऽत्रापीत्याह —
व्याख्यानं त्विति ।
इत्यागमोपपत्तिभ्यां ससंन्यासं सेतिकर्तव्यताकमात्मज्ञानममृतत्वसाधनं सिद्धमित्युपसंहर्तुमितिशब्दः ।
परिसमाप्तौ मङ्गलमाचरति —
ब्रह्मेति ॥ १ ॥ २ ॥ ३ ॥