पूर्वस्मिन्नध्याये ब्रह्मात्मज्ञानं सफलं साङ्गोपाङ्गं वादन्यायेनोक्तमिदानीं काण्डान्तरमवतारयति —
पूर्णमिति ।
पूर्वाध्यायेष्वेव सर्वस्य वक्तव्यस्य समाप्तत्वादलं खिलकाण्डारम्भेणेत्याशङ्क्य पूर्वत्रानुक्तं परिशिष्टं वस्तु खिलशब्दवाच्यमस्तीत्याह —
अध्यायचतुष्टयेनेति ।
सर्वान्तर इत्युक्त इति शेषः । अमृतत्वसाधनं निर्धारितमिति पूर्वेण संबन्धः । शब्दार्थादीत्यादिशब्देन मानमेयादिग्रहः । दयां शिक्षेदित्युक्तानीति शेषः ।
ओङ्कारादि यत्र साधनत्वेन विधित्सितं तत्पूर्वोक्तमैक्यज्ञानमनुवदति —
पूर्णमिति ।
अवयवार्थमुक्त्वा समुदायार्थमाह —
तत्संपूर्णमिति ।
अदः पूर्णमित्यनेन लक्ष्यं तत्पदार्थं दर्शयित्वा त्वम्पदार्थं दर्शयति —
तदेवेति ।
कथं सोपाधिकस्य पूर्णत्वमित्याशङ्क्याऽऽह —
स्वेनेति ।
व्यावर्त्यमाह —
नोपाधीति ।
न वयमुपहितेन विशिष्टेन रूपेण पूर्णतां वर्णयामः किन्तु केवलेन स्वरूपेणेत्यर्थः ।
लक्ष्यौ तत्त्वम्पदार्थमुक्त्वा तावेव वाच्यौ कथयति —
तदिदमिति ।
कथं कार्यात्मनोद्रिच्यमानस्य पूर्णत्वमित्याशङ्क्याऽऽह —
यद्यपीति ।
लक्ष्यपदार्थैक्यज्ञानफलमुपन्यस्यति —
पूर्णस्येति ।
उपक्रमोपसंहारयोरैकरूप्यमैक्ये श्रुतितात्पर्यलिङ्गं संगिरते —
यदुक्तमिति ।
कथं पूर्णकण्डिकाया ब्रह्मकण्डिकया सहैकार्थत्वेनैकवाक्यत्वमित्याशङ्क्य तद्व्युत्पादयति —
तत्रेत्यादिना ।
उपक्रमोपसंहारसिद्धे ब्रह्मात्मैक्ये कठश्रुतिं संवादयति —
तथा चेति ।
ब्रह्मात्मनोरैक्यमुक्तमुपजीव्य वाक्यार्थमाह —
अत इति ।
पूर्णं यद्ब्रह्मेति यच्छब्दो द्रष्टव्यः ।
उक्तमेव व्यनक्ति —
तस्मादेवेति ।
संसारावस्थां दर्शयित्वा मोक्षावस्थां दर्शयति —
यद्यदात्मानमिति ।
उक्ते विद्याफले वाक्योपक्रममनुकूलयति —
तथा चोक्तमिति ।
न केवलं ब्रह्मकण्डिकयैवास्य मन्त्रस्यैकवाक्यत्वं किं तु सर्वाभिरुपनिषद्भिरित्याह —
यः सर्वोपनिषदर्थ इति ।
अनुवादफलमाह —
उत्तरेति ।
तदेव स्फुटयति —
ब्रह्मविद्येति ।
तस्माद्युक्तो ब्रह्मणोऽनुवाद इति शेषः ।
कथं तर्हि सर्वोपासनशेषत्वेन विधित्सितत्वमोङ्कारादीनामुक्तमत आह —
खिलेति ।