ओं खं ब्रह्म । खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥ १ ॥
पूर्णमद इत्यादि खिलकाण्डमारभ्यते । अध्यायचतुष्टयेन यदेव साक्षादपरोक्षाद्ब्रह्म, य आत्मा सर्वान्तरः निरुपाधिकः अशनायाद्यतीतः नेति नेतीति व्यपदेश्यः निर्धारितः, यद्विज्ञानं केवलममृतत्वसाधनम् — अधुना तस्यैव आत्मनः सोपाधिकस्य शब्दार्थादिव्यवहारविषयापन्नस्य पुरस्तादनुक्तानि उपासनानि कर्मभिरविरुद्धानि प्रकृष्टाभ्युदयसाधनानि क्रममुक्तिभाञ्जि च ; तानि वक्तव्यानीति परः सन्दर्भः ; सर्वोपासनशेषत्वेन ओङ्कारो दमं दानं दयाम् इत्येतानि च विधित्सितानि । पूर्णमदः — पूर्णम् न कुतश्चित् व्यावृत्तं व्यापीत्येतत् ; निष्ठा च कर्तरि द्रष्टव्या ; अद इति परोक्षाभिधायि सर्वनाम, तत् परं ब्रह्मेत्यर्थः ; तत् सम्पूर्णम् आकाशवद्व्यापि निरन्तरं निरुपाधिकं च ; तदेव इदं सोपाधिकं नामरूपस्थं व्यवहारापन्नं पूर्णं स्वेन रूपेण परमात्मना व्याप्येव, न उपाधिपरिच्छिन्नेन विशेषात्मना ; तदिदं विशेषापन्नं कार्यात्मकं ब्रह्म पूर्णात्कारणात्मनः उदच्यते उद्रिच्यते, उद्गच्छतीत्येतत् । यद्यपि कार्यात्मना उद्रिच्यते तथापि यत्स्वरूपं पूर्णत्वम् परमात्मभावं तन्न जहाति, पूर्णमेव उद्रिच्यते । पूर्णस्य कार्यात्मनो ब्रह्मणः, पूर्णं पूर्णत्वम् , आदाय गृहीत्वा आत्मस्वरूपैकरसत्वमापद्य विद्यया, अविद्याकृतं भूतमात्रोपाधिसंसर्गजम् अन्यत्वावभासं तिरस्कृत्य, पूर्णमेव अनन्तरमबाह्यं प्रज्ञानघनैकरसस्वभावं केवलं ब्रह्म अवशिष्यते । यदुक्तम् — ‘ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् तस्मात्तत्सर्वमभवत्’ (बृ. उ. १ । ४ । १०) इति — एषः अस्य मन्त्रस्यार्थः ; तत्र ‘ब्रह्म’ इत्यस्यार्थः ‘पूर्णमदः’ इति ; इदं पूर्णम् इति ‘ब्रह्म वा इदमग्र आसीत्’ इत्यस्यार्थः ; तथा च श्रुत्यन्तरम् — ‘यदेवेह तदमुत्र यदमुत्र तदन्विह’ (क. उ. २ । १ । १०) इति ; अतः अदःशब्दवाच्यं पूर्णं ब्रह्म, तदेव इदं पूर्णं कार्यस्थं नामरूपोपाधिसंयुक्तम् अविद्यया उद्रिक्तम् तस्मादेव परमार्थस्वरूपात् अन्यदिव प्रत्यवभासमानम् — तत् , यत् आत्मानमेव परं पूर्णं ब्रह्म विदित्वा — अहम् अदः पूर्णं ब्रह्मास्मि इत्येवम् , पूर्णमादाय, तिरस्कृत्य अपूर्णस्वरूपताम् अविद्याकृतां नामरूपोपाधिसम्पर्कजाम् एतया ब्रह्मविद्यया पूर्णमेव केवलम् अवशिष्यते ; तथा चोक्तम् ‘तस्मात्तत्सर्वमभवत्’ इति । यः सर्वोपनिषदर्थो ब्रह्म, स एषः अनेन मन्त्रेण अनूद्यते, उत्तरसम्बन्धार्थम् । ब्रह्मविद्यासाधनत्वेन हि वक्ष्यमाणानि साधनानि ओङ्कारदमदानदयाख्यानि विधित्सितानि, खिलप्रकरणसम्बन्धात् सर्वोपासनाङ्गभूतानि च ॥