बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ओं खं ब्रह्म । खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥ १ ॥
अत्रैके वर्णयन्ति — पूर्णात् कारणात् पूर्णं कार्यम् उद्रिच्यते ; उद्रिक्तं कार्यं वर्तमानकालेऽपि पूर्णमेव परमार्थवस्तुभूतं द्वैतरूपेण ; पुनः प्रलयकाले पूर्णस्य कार्यस्य पूर्णताम् आदाय आत्मनि धित्वा पूर्णमेव अवशिष्यते कारणरूपम् ; एवम् उत्पत्तिस्थितिप्रलयेषु त्रिष्वपि कालेषु कार्यकारणयोः पूर्णतैव ; सा च एकैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते ; एवं च द्वैताद्वैतात्मकमेकं ब्रह्म । यथा किल समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक एव, यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेनबुद्बुदादयः समुद्रात्मभूता एव आविर्भावतिरोभावधर्माणः परमार्थसत्या एव — एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादिस्थानीयम् , समुद्रजलस्थानीयं तु परं ब्रह्म । एवं च किल द्वैतस्य सत्यत्वे कर्मकाण्डस्य प्रामाण्यम् , यदा पुनर्द्वैतं द्वैतमिवाविद्याकृतं मृगतृष्णिकावदनृतम् , अद्वैतमेव परमार्थतः, तदा किल कर्मकाण्डं विषयाभावात् अप्रमाणं भवति ; तथा च विरोध एव स्यात् । वेदैकदेशभूता उपनिषत् प्रमाणम् , परमार्थाद्वैतवस्तुप्रतिपादकत्वात् ; अप्रमाणं कर्मकाण्डम् , असद्द्वैतविषयत्वात् । तद्विरोधपरिजिहीर्षया श्रुत्या एतदुक्तं कार्यकारणयोः सत्यत्वं समुद्रवत् ‘पूर्णमदः’ इत्यादिना इति । तदसत् , विशिष्टविषयापवादविकल्पयोरसम्भवात् । न हि इयं सुविवक्षिता कल्पना । कस्मात् ? यथा क्रियाविषये उत्सर्गप्राप्तस्य एकदेशे अपवादः क्रियते, यथा ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः’ (छा. उ. ८ । १५ । १) इति हिंसा सर्वभूतविषया उत्सर्गेण निवारिता तीर्थे विशिष्टविषये ज्योतिष्टोमादावनुज्ञायते, न च तथा वस्तुविषये इह अद्वैतं ब्रह्म उत्सर्गेण प्रतिपाद्य पुनः तदेकदेशे अपवदितुं शक्यते, ब्रह्मणः अद्वैतत्वादेव एकदेशानुपपत्तेः । तथा विकल्पानुपपत्तेश्च ; यथा ‘अतिरात्रे षोडशिनं गृह्णाति’ ( ? ) ‘नातिरात्रे षोडशिनं गृह्णाति’ ( ? ) इति ग्रहणाग्रहणयोः पुरुषाधीनत्वात् विकल्पो भवति ; न त्विह तथा वस्तुविषये द्वैतं वा स्यात् अद्वैतं वेति विकल्पः सम्भवति, अपुरुषतन्त्रत्वादात्मवस्तुनः, विरोधाच्च द्वैताद्वैतत्वयोरेकस्य । तस्मात् न सुविवक्षिता इयं कल्पना । श्रुतिन्यायविरोधाच्च । सैन्धवघनवत् प्रज्ञानैकरसघनं निरन्तरं पूर्वापरबाह्याभ्यन्तरभेदविवर्जितं सबाह्याभ्यन्तरम् अजं नेति नेति अस्थूलमनण्वह्रस्वमजरमभयममृतम् — इत्येवमाद्याः श्रुतयः निश्चितार्थाः संशयविपर्यासाशङ्कारहिताः सर्वाः समुद्रे प्रक्षिप्ताः स्युः, अकिञ्चित्करत्वात् । तथा न्यायविरोधोऽपि, सावयवस्यानेकात्मकस्य क्रियावतो नित्यत्वानुपपत्तेः ; नित्यत्वं च आत्मनः स्मृत्यादिदर्शनात् अनुमीयते ; तद्विरोधश्च प्राप्नोति अनित्यत्वे ; भवत्कल्पनानर्थक्यं च ; स्फुटमेव च अस्मिन्पक्षे कर्मकाण्डानर्थक्यम् , अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् । ननु ब्रह्मणो द्वैताद्वैतात्मकत्वे समुद्रादिदृष्टान्ता विद्यन्ते ; कथमुच्यते भवता एकस्य द्वैताद्वैतत्वं विरुद्धमिति ? न, अन्यविषयत्वात् ; नित्यनिरवयववस्तुविषयं हि विरुद्धत्वम् अवोचाम द्वैताद्वैतत्वस्य, न कार्यविषये सावयवे । तस्मात् श्रुतिस्मृतिन्यायविरोधात् अनुपपन्नेयं कल्पना । अस्याः कल्पनायाः वरम् उपनिषत्परित्याग एव । अध्येयत्वाच्च न शास्त्रार्था इयं कल्पना ; न हि जननमरणाद्यनर्थशतसहस्रभेदसमाकुलं समुद्रवनादिवत् सावयवम् अनेकरसं ब्रह्म ध्येयत्वेन विज्ञेयत्वेन वा श्रुत्या उपदिश्यते ; प्रज्ञानघनतां च उपदिशति ; ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) इति च ; अनेकधादर्शनापवादाच्च ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इति ; यच्च श्रुत्या निन्दितम् , तन्न कर्तव्यम् ; यच्च न क्रियते, न स शास्त्रार्थः ; ब्रह्मणोऽनेकरसत्वम् अनेकधात्वं च द्वैतरूपं निन्दितत्वात् न द्रष्टव्यम् ; अतो न शास्त्रार्थः ; यत्तु एकरसत्वं ब्रह्मणः तत् द्रष्टव्यत्वात् प्रशस्तम् , प्रशस्तत्वाच्च शास्त्रार्थो भवितुमर्हति । यत्तूक्तं वेदैकदेशस्य अप्रामाण्यं कर्मविषये द्वैताभावात् , अद्वैते च प्रामाण्यमिति — तन्न, यथाप्राप्तोपदेशार्थत्वात् ; न हि द्वैतम् अद्वैतं वा वस्तु जातमात्रमेव पुरुषं ज्ञापयित्वा पश्चात्कर्म वा ब्रह्मविद्यां वा उपदिशति शास्त्रम् ; न च उपदेशार्हं द्वैतम् , जातमात्रप्राणिबुद्धिगम्यत्वात् ; न च द्वैतस्य अनृतत्वबुद्धिः प्रथममेव कस्यचित् स्यात् , येन द्वैतस्य सत्यत्वमुपदिश्य पश्चात् आत्मनः प्रामाण्यं प्रतिपादयेत् शास्त्रम् । नापि पाषण्डिभिरपि प्रस्थापिताः शास्त्रस्य प्रामाण्यं न गृह्णीयुः । तस्मात् यथाप्राप्तमेव द्वैतम् अविद्याकृतं स्वाभाविकम् उपादाय स्वाभाविक्यैव अविद्यया युक्ताय रागद्वेषादिदोषवते यथाभिमतपुरुषार्थसाधनं कर्म उपदिशत्यग्रे ; पश्चात् प्रसिद्धक्रियाकारकफलस्वरूपदोषदर्शनवते तद्विपरीतौदासीन्यस्वरूपावस्थानफलार्थिने तदुपायभूताम् आत्मैकत्वदर्शनात्मिकां ब्रह्मविद्याम् उपदिशति । अथैवं सति तदौदासीन्यस्वरूपावस्थाने फले प्राप्ते शास्त्रस्य प्रामाण्यं प्रति अर्थित्वं निवर्तते ; तदभावात् शास्त्रस्यापि शास्त्रत्वं तं प्रति निवर्तत एव । तथा प्रतिपुरुषं परिसमाप्तं शास्त्रम् इति न शास्त्रविरोधगन्धोऽपि अस्ति, अद्वैतज्ञानावसानत्वात् शास्त्रशिष्यशासनादिद्वैतभेदस्य ; अन्यतमावस्थाने हि विरोधः स्यात् अवस्थितस्य ; इतरेतरापेक्षत्वात्तु शास्त्रशिष्यशासनानां नान्यतमोऽपि अवतिष्ठते ; सर्वसमाप्तौ तु कस्य विरोध आशङ्क्येत अद्वैते केवले शिवे सिद्धे ; नाप्यविरोधता, अत एव । अथापि अभ्युपगम्य ब्रूमः — द्वैताद्वैतात्मकत्वेऽपि शास्त्रविरोधस्य तुल्यत्वात् ; यदापि समुद्रादिवत् द्वैताद्वैतात्मकमेकं ब्रह्म अभ्युपगच्छामः नान्यद्वस्त्वन्तरम् , तदापि भवदुक्तात् शास्त्रविरोधात् न मुच्यामहे ; कथम् ? एकं हि परं ब्रह्म द्वैताद्वैतात्मकम् ; तत् शोकमोहाद्यतीतत्वात् उपदेशं न काङ्क्षति ; न च उपदेष्टा अन्यः ब्रह्मणः ; द्वैताद्वैतरूपस्य ब्रह्मणः एकस्यैव अभ्युपगमात् । अथ द्वैतविषयस्य अनेकत्वात् अन्योन्योपदेशः, न ब्रह्मविषय उपदेश इति चेत् — तदा द्वैताद्वैतात्मकम् एकमेव ब्रह्म, नान्यदस्ति इति विरुध्यते । यस्मिन्द्वैतविषये अन्योन्योपदेशः, सः अन्यः द्वैतं च अन्यदेव इति समुद्रदृष्टान्तो विरुद्धः । न च समुद्रोदकैकत्ववत् विज्ञानैकत्वे ब्रह्मणः अन्यत्र उपदेशग्रहणादिकल्पना सम्भवति ; न हि हस्तादिद्वैताद्वैतात्मके देवदत्ते वाक्कर्णयोः देवदत्तैकदेशभूतयोः वाक् उपदेष्ट्री कर्णः केवल उपदेशस्य ग्रहीता, देवदत्तस्तु न उपदेष्टा नाप्युपदेशस्य ग्रहीता — इति कल्पयितुं शक्यते, समुद्रैकोदकात्मत्ववत् एकविज्ञानवत्त्वात् देवदत्तस्य । तस्मात् श्रुतिन्यायविरोधश्च अभिप्रेतार्थासिद्धिश्च एवंकल्पनायां स्यात् । तस्मात् यथाव्याख्यात एव अस्माभिः पूर्णमदः इत्यस्य मन्त्रस्य अर्थः ॥

अत्रेत्यादिना ; उद्रिक्तमिति ; पुनरिति ; एवमिति ; सा चेति ; कार्यकारणयोरिति ; एवं चेति ; यथा किलेति ; यथा चेत्यादिना ; एवं चेति ; यदा पुनरिति ; तथा चेति ; वेदेति ; तद्विरोधेति ; तदसदिति ; न हीति ; कस्मादित्यादिना ; यथेत्यादिना ; न चेति ; तथेति ; यथेत्यादिना ; विरोधाच्चेति ; तस्मादिति ; तथेति ; नित्यत्वं चेति ; भवदिति ; स्फुटमेवेति ; नन्विति ; नेत्यादिना ; तस्मादिति ; अस्या इति ; अध्येयत्वाच्चेति ; न हीति ; प्रज्ञानेति ; यच्चेति ; यच्च नेति ; ब्रह्मण इति ; यत्त्विति ; यत्तूक्तमिति ; तन्नेति ; न हीति ; न चेति ; न च द्वैतस्येति ; नापीति ; तस्मादित्यादिना ; अथेति ; तथेति ; इति नेति ; अद्वैतेति ; अन्यतमेति ; सर्वेति ; नापीति ; अत एवेति ; अथापीति ; यदाऽपीति ; कथमिति ; एकं हीति ; न चेति ; अथेति ; तदेति ; यस्मिन्निति ; न चेति ; न हीति ; समुद्रेति ; तस्मादिति ; तस्मादिति ;

अद्वितीयं ब्रह्मेत्युत्सर्गप्रवृत्तं शास्त्रं प्रलयावस्थब्रह्मविषयं सृष्टिशास्त्रं तु विशेषप्रवृत्तं तस्यापवादस्ततो द्वैताद्वैतरूपं ब्रह्म सर्वोपनिषदर्थस्तदेव ब्रह्मानेन मन्त्रेण संक्षिप्यत इति भर्तृप्रपञ्चपक्षमुत्थापयति —

अत्रेत्यादिना ।

कार्यकारणयोरुत्पत्तिकाले पूर्णत्वमुक्त्वा स्थितिकालेऽपि तदाह —

उद्रिक्तमिति ।

प्रलयकालेऽपि तयोः पूर्णत्वं दर्शयति —

पुनरिति ।

कालभेदेन कार्यकारणयोरुक्तां पूर्णतां निगमयति —

एवमिति ।

कार्यकारणे द्वे पूर्णे चेत्तर्हि कथमद्वैतसिद्धिरित्याशङ्क्याऽऽह —

सा चेति ।

कथं तर्हि द्वयोरुक्तं पूर्णत्वं तदाह —

कार्यकारणयोरिति ।

एका पूर्णता व्यपदिश्यते च द्वयोरिति स्थिते लब्धमर्थमाह —

एवं चेति ।

एकं ह्यनेकात्मकमिति विप्रतिषेधमाशङ्क्य दृष्टान्तेन निराचष्टे —

यथा किलेति ।

एवमेकं ब्रह्मानेकात्मकमिति शेषः ।

ब्रह्मणो द्वैताद्वैतात्मकत्वेऽपि सत्यमद्वैतमसत्यमितरदित्याशङ्क्याऽऽह —

यथा चेत्यादिना ।

द्वैतस्य परमार्थसत्यत्वे कर्मकाण्डश्रुतिमनुकूलयति —

एवं चेति ।

विपक्षे दोषमाह —

यदा पुनरिति ।

अस्तु कर्मकाण्डप्रामाण्यं नेत्याह —

तथा चेति ।

विरोधोऽध्ययनविधेरिति शेषः ।

तमेव विरोधं साधयति —

वेदेति ।

कथं तर्हि विरोधसमाधिस्तत्राह —

तद्विरोधेति ।

प्राप्तं भर्तृप्रपञ्चप्रस्थानं प्रत्याचष्टे —

तदसदिति ।

विशिष्टमद्वितीयं ब्रह्म तद्विषयोत्सर्गापवादयोर्विकल्पसमुच्चययोश्चासंभवं वक्तुं प्रतिज्ञाभागं विभजते —

न हीति ।

तत्र प्रश्नपूर्वकं हेतुं विवृणोति —

कस्मादित्यादिना ।

यथेत्यादिग्रन्थस्य न च तथेत्यादिना संबन्धः ।

क्रियायामुत्सर्गापवादसंभावनामुदाहरति —

यथेत्यादिना ।

तथाऽन्यत्रापि क्रियायामुत्सर्गापवादौ द्रष्टव्याविति शेषः ।

वैधर्म्यदृष्टान्तस्य दार्ष्टान्तिकमाह —

न चेति ।

विषयभेदे सत्युत्सर्गापवादौ दृष्टौ न तावदद्वितीये ब्रह्मणि संभवतः । न हि ब्रह्माद्वयमेव जायते लीयते चेति संभावनास्पदमिति भावः ।

उत्सर्गापवादानुपपत्तिवद्ब्रह्मणि विकल्पानुपपत्तेश्च तदेकरसमेषितव्यमित्याह —

तथेति ।

विकल्पानुपपत्तिमुपपादयति —

यथेत्यादिना ।

संप्रति समुच्चयासंभवमभिदधाति —

विरोधाच्चेति ।

उत्सर्गापवादविकल्पसमुच्चयानामसंभवान्न युक्ता ब्रह्मणो नानारसत्वकल्पनेति फलितमाह —

तस्मादिति ।

परकीयकल्पनानुपपत्तौ हेत्वन्तरं प्रतिज्ञाय श्रुतिविरोधं प्रकटीकृत्य न्यायविरोधं प्रकटयति —

तथेति ।

ब्रह्मणोऽनेकरसत्वे स्यादिति शेषः । नित्यत्वानुपपत्तेरात्मनो नित्यत्वाङ्गीकारविरोधः स्यादित्यध्याहारः ।

ननु तस्य नित्यत्वं नाङ्गीक्रियते मानाभावादिति प्रासंगिकीमाशङ्कां प्रत्याह —

नित्यत्वं चेति ।

स्मृत्यादिदर्शनादित्यादिशब्देन स एव तु कर्मानुस्मृतिशब्दविधिभ्य इत्यधिकरणोक्ता हेतवो गृह्यन्ते । अनुमीयते कल्प्यते स्वीक्रियत इति यावत् । तद्विरोधश्च स्मृत्यादिदर्शनकृतात्मनित्यत्वानुमानविरोधश्चेत्यर्थः ।

आत्मनोऽनित्यत्वे दोषान्तरमाह —

भवदिति ।

कर्मकाण्डस्य सत्यार्थत्वं परेण कल्प्यते तदानर्थक्यमात्मानित्यत्वे स्पष्टमापतेदित्युक्तमेव स्फुटयति —

स्फुटमेवेति ।

ब्रह्मणो नानारसत्त्वे विरोधमुक्तमसहमानः स्वोक्तं स्मारयति —

नन्विति ।

समुद्रादीनां कार्यत्वसावयवत्वाभ्यामनेकात्मकत्वविरुद्धं ब्रह्मणस्तु नित्यत्वान्निरवयवत्वाच्च नानेकात्मकत्वं युक्तमिति वैषम्यमादर्शयन्नुत्तरमाह —

नेत्यादिना ।

ब्रह्मणो नानारसत्वकल्पनानुपपत्तिमुपसंहरति —

तस्मादिति ।

’अजो नित्यः शाश्वतोऽयं पुराणः’ इत्याद्याः स्मृतयः ।

ननु प्रत्यक्षाद्यविरोधेनोपनिषदां विषयसिद्ध्यर्थमेषा कल्पना क्रियते तथा च कथं साऽनुपपन्नेत्याशङ्क्याऽऽह —

अस्या इति ।

विरुद्धार्थत्वे कल्पितेऽपि तत्प्रामाण्यानुपपत्तेरविशेषादिति भावः ।

किञ्च ब्रह्मणो नानारसत्वं लौकिकं वैदिकं वा । नाऽऽद्यः । तस्यालौकिकत्वात्तन्नानारसत्वे लोकस्य तटस्थत्वात् । न द्वितीयः । तन्नानारसत्वस्य ध्येयत्वेन ज्ञेयत्वेन वा शास्त्रेणानुपदेशादित्याह —

अध्येयत्वाच्चेति ।

तदेव स्फुटयति —

न हीति ।

इतश्च नानारसं ब्रह्म न यथाशास्त्रप्रकाश्यमित्याह —

प्रज्ञानेति ।

चकारादुपदिशतीत्याकृष्यते । अनेकधादर्शनापवादाच्च नानारसं ब्रह्म शास्त्रार्थो न भवतीति शेषः ।

भेददर्शनस्य निन्दितत्वे लब्धमर्थमाह —

यच्चेति ।

अकर्तव्यत्वे प्राप्तमर्थं कथयति —

यच्च नेति ।

सामान्यन्यायं प्रकृते योजयति —

ब्रह्मण इति ।

कस्तर्हि शास्त्रार्थस्तत्राऽऽह —

यत्त्विति ।

ब्रह्मैकरस्ये प्रागुक्तं दोषमनुभाषते —

यत्तूक्तमिति ।

कर्मकाण्डस्य कर्मविषये न प्रामाण्यमसद्द्वैतविषयत्वाद्ब्रह्मकाण्डस्य त्वद्वैते प्रामाण्यं परमार्थाद्वैतवस्तुप्रतिपादकत्वात्तथा च विरोधोऽध्ययनविधेरित्यनुवादार्थः ।

कर्मकाण्डाप्रामाण्यं प्रत्याचष्टे —

तन्नेति ।

प्रसिद्धं भेदमादाय तत्रैव विधिनिषेधोपदेशस्य प्रवृत्तिनिवृत्तिद्वाराऽर्थवत्त्वान्न कर्मकाण्डानर्थक्यमित्यर्थः ।

ननु शास्त्रमेवाऽऽदौ भेदं बोधयित्वा पश्चादभ्युदयसाधनं कर्मोपदिशति । तथा च नास्ति भेदस्यात्यन्तः प्राप्तिरत आह —

न हीति ।

यथा हि शास्त्रं जातमात्रं पुरुषं प्रत्यद्वैतं वस्तु ज्ञापयित्वा पश्चाद्ब्रह्मविद्यामुपदिशतीति नेष्यते तथा प्रथममेव पुरुषं प्रति द्वैतं बोधयित्वा कर्म पुनर्बोधयतीत्यपि नाभ्युपेयं प्रथमतो भेदावेदनावस्थायामस्य शास्त्रानधिकारित्वादित्यर्थः ।

द्वैतस्योपदेशार्हत्वमङ्गीकृत्योक्तं तदेव नास्तीत्याह —

न चेति ।

ननु द्वैतस्य सत्यबुद्ध्यभावे श्रुत्युक्तानुष्ठानाय पुंसां प्रवृत्त्यनुपपत्तेः स्वप्रामाण्यसिद्ध्यर्थमेव द्वैतसत्यत्वं श्रुतिर्बोधयिष्यति नेत्याह —

न च द्वैतस्येति ।

द्वैतानृतत्ववादिषु कर्मजडानां प्रद्वेषप्रतीतेर्न प्रथमतो द्वैतानृतत्वबुद्धिर्न च द्वैतसत्यत्वं श्रुत्यर्थस्तत्परिचयहीनानामपि द्वैतसत्यत्वाभिनिवेशादित्यर्थः ।

किञ्च न द्वैतवैतथ्यं शास्त्रप्रामाण्यविघातकं यतो बौद्धादिभिः श्रेयसे प्रस्थापिताः स्वशिष्या द्वैतमिथ्यात्वावगमेऽपि स्वर्गकामश्चैत्यं वन्देतेत्यादिशास्त्रस्य प्रामाण्यं गृह्णन्ति । तथाऽग्निहोत्रादिशास्त्रस्यापि प्रामाण्यं भविष्यति साधनत्वशक्त्यनपहारादित्याह —

नापीति ।

काण्डद्वयस्य प्रामाण्योपपत्तिमुपसंहरति —

तस्मादित्यादिना ।

प्रसिद्धो योऽयं क्रियादिरूपे द्वैते दोषः सातिशयत्वादिस्तद्दर्शनं विवेकस्तद्वते तस्माद्द्वैताद्विपरीतमौदासीन्योपलक्षितं स्वरूपं तस्मिन्नवस्थानं कैवल्यं तदर्थिने मुमुक्षवे साधनचतुष्टयसंपन्नायेत्यर्थः ।

किञ्च तत्त्वज्ञानादूर्ध्वं पूर्वं वा काण्डयोर्विरोधः शङ्क्यते । नाऽऽद्य इत्याह —

अथेति ।

अवस्थाभेदादेकस्मिन्नपि पुरुषे काण्डद्वयस्य प्रामाण्यमविरुद्धमित्येवं स्थिते सत्युपनिषद्भ्यस्तत्त्वज्ञानोत्पत्त्यनन्तरं नान्तरीयकत्वेन प्राप्ते कैवल्ये पुरुषस्य नैराकाङ्क्ष्यं जायते न च निराकाङ्क्षं पुरुषं प्रति शास्त्रस्य शास्त्रत्वमस्ति ।
’प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते’ ॥
इति न्यायात्कृतकृत्यं प्रति प्रवर्तकत्वादिविरहिणः शास्त्रत्वायोगादतो ज्ञानादूर्ध्वं धर्म्यभावाद्विरोधासिद्धिरित्यर्थः ।

एकस्मिन्पुरुषे दर्शितन्यायं सर्वत्रातिदिशति —

तथेति ।

ज्ञानादूर्ध्वं विरोधाभावमुपसंहरति —

इति नेति ।

कल्पान्तरं प्रत्याह —

अद्वैतेति ।

तत्त्वज्ञानात्पूर्वं भेदस्यावस्थितत्वात्तमाविद्यमादायाधिकारिभेदादवस्थाभेदाद्वा काण्डयोरविरोधसिद्धिरित्यर्थः ।

भेदमेवोपपादयति —

अन्यतमेति ।

शिष्यादीनामन्यतमस्यैवावस्थानं चेदवस्थितस्येतरस्मिंश्च सापेक्षत्वान्न सोऽप्यवतिष्ठेत । न च ज्ञानात्प्रागन्यतमस्यैवावस्थानं सर्वेषामेव तेषां यथाप्रतिभासमवस्थानादतो न पूर्वं विरोधशङ्केत्यर्थः ।

ऊर्ध्वं विरोधशङ्काभावमधिकविवक्षयाऽनुवदति —

सर्वेति ।

कथं कैवल्यं विरोधाभावस्य सत्त्वादित्याशङ्क्याऽऽह —

नापीति ।

अद्वैतत्वादेवाभावस्यापि तत्त्वनिमज्जनादित्याह —

अत एवेति ।

अद्वितीयमेव ब्रह्म न द्वैताद्वैतात्मकमित्युपपादितमिदानीं ब्रह्मणो द्वैताद्वैतात्मकत्वाभ्युपगमेऽपि विरोधो न शक्यते परिहर्तुमित्याह —

अथापीति ।

तुल्यत्वात्तदभ्युपगमो वृथेति शेषः ।

उक्तमेवोपपादयति —

यदाऽपीति ।

द्वैताद्वैतात्मकं ब्रह्मेति पक्षे कथं विरोधो न समाधीयते द्वैतमद्वैतं चाधिकृत्य काण्डद्वयप्रामाण्यसंभवादित्याक्षिपति —

कथमिति ।

किं ब्रह्मविषयः शास्त्रोपदेशः किं वाऽब्रह्मविषयः । प्रथमे द्वैताद्वैतरूपस्यैकस्यैव ब्रह्मणोऽभ्युपगमात्तस्य च नित्यमुक्तत्वान्नोपदेशः संभवतीत्याह —

एकं हीति ।

तस्योपदेशाभावे हेत्वन्तरमाह —

न चेति ।

उपदेष्टा हि ब्रह्मणोऽन्योऽनन्यो वा । नाऽऽद्योऽभ्युपगमविरोधात् । न द्वितीयो भेदमन्तरेणोपदेश्योपदेशकभावासंभवादिति भावः ।

कल्पान्तरमुत्थापयति —

अथेति ।

प्रतिज्ञाविरोधेन निराकरोति —

तदेति ।

किञ्च सर्वस्य ब्रह्मरूपत्वे यः समुद्रदृष्टान्तः स न स्यात्परस्परोपदेशस्याब्रह्मविषयत्वादित्याह —

यस्मिन्निति ।

अथ यथा फेनादिविकाराणां भिन्नत्वेऽपि समुद्रोदकात्मत्वं तथा जीवादीनां भिन्नत्वेऽपि ब्रह्मस्वभावविज्ञानैक्याद्ब्रह्म सर्वमिति न विरुध्यते तत्राऽऽह —

न चेति ।

सर्वस्य ब्रह्मत्वमङ्गीकृतं चेद्ब्रह्मविषय एवोपदेशः स्याद्भेदस्याविचारितरमणीयत्वादित्यर्थः ।

ननु नानारूपवस्तुसमुदायो ब्रह्म तत्र प्रदेशभेदादुपदेश्योपदेशकभावो ब्रह्म तु नोपदेश्यमुपदेशकं चेति तत्राऽऽह —

न हीति ।

तत्र हेतुमाह —

समुद्रेति ।

यथा समुद्रस्योदकात्मना फेनादिष्वेकत्वं तथा देवदत्तक्षेत्रज्ञस्य वागाद्यवयवेष्वेकत्वेन विज्ञानवत्त्वान्न व्यवस्थासंभवस्तथा ब्रह्मण्यपि द्रष्टव्यमित्यर्थः ।

मतान्तरनिराकरणमुपसंहरति —

तस्मादिति ।

आत्मैकरस्यप्रतिपादिका श्रुतिर्न्यायश्च सावयवस्यानेकात्मकस्येत्यादावुक्तः । अभिप्रेतार्थासिद्धिर्भवत्कल्पनानर्थक्यं चेत्यादिना दर्शिता । एवङ्कल्पनायामेकानेकात्मकं ब्रह्मेत्यभ्युपगतावित्यर्थः ।

परकीयव्याख्यानासंभवे फलितमाह —

तस्मादिति ।