बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ओं खं ब्रह्म । खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥ १ ॥
ओं खं ब्रह्म इति मन्त्रः ; अयं च अन्यत्र अविनियुक्तः इह ब्राह्मणेन ध्यानकर्मणि विनियुज्यते । अत्र च ब्रह्मेति विशेष्याभिधानम् , खमिति विशेषणम् । विशेषणविशेष्ययोश्च सामानाधिकरण्येन निर्देशः नीलोत्पलवत् — खं ब्रह्मेति ब्रह्मशब्दो बृहद्वस्तुमात्रास्पदः अविशेषितः, अतः विशेष्यते — खं ब्रह्मेति ; यत्तत् खं ब्रह्म, तत् ओंशब्दवाच्यम् , ओंशब्दस्वरूपमेव वा ; उभयथापि सामानाधिकरण्यम् अविरुद्धम् । इह च ब्रह्मोपासनसाधनत्वार्थम् ओंशब्दः प्रयुक्तः, तथा च श्रुत्यन्तरात् ‘एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्’ (क. उ. १ । २ । १७) ‘ओमित्यात्मानं युञ्जीत’ (तै. ना. २४ । १) ‘ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ (प्र. उ. ५ । ५) ‘ओमित्येवं ध्यायथ आत्मानम्’ (मु. उ. २ । २ । ६) इत्यादेः । अन्यार्थासम्भवाच्च उपदेशस्य । यथा अन्यत्र ‘ओमिति शंसति ओमित्युद्गायति’ (छा. उ. १ । १ । ९) इत्येवमादौ स्वाध्यायारम्भापवर्गयोश्च ओङ्कारप्रयोगः विनियोगादवगम्यते, न च तथा अर्थान्तरम् इह अवगम्यते । तस्मात् ध्यानसाधनत्वेनैव इह ओङ्कारशब्दस्य उपदेशः । यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकाः, तथापि श्रुतिप्रामाण्यात् ब्रह्मणो नेदिष्ठमभिधानम् ओङ्कारः । अत एव ब्रह्मप्रतिपत्तौ इदं परं साधनम् । तच्च द्विप्रकारेण, प्रतीकत्वेन अभिधानत्वेन च । प्रतीकत्वेन — यथा विष्ण्वादिप्रतिमा अभेदेन, एवम् ओङ्कारः ब्रह्मेति प्रतिपत्तव्यः । तथा ह्योङ्कारालम्बनस्य ब्रह्म प्रसीदति, ‘एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते’ (क. उ. १ । २ । १७) इति श्रुतेः ॥

ध्यानशेषत्वेनोपनिषदर्थं ब्रह्मानूद्य तद्विधानार्थं तस्मिन्विनियुक्तं मन्त्रमुत्थापयति —

ओं खमिति ।

इषे त्वेत्यादिवत्तस्य कर्मान्तरे विनियुक्तत्वमाशङ्क्याऽऽह —

अयं चेति ।

विनियोजकाभावादिति भावः ।

तर्हि ध्यानेऽपि नायं विनियुक्तो विनियोजकाभावाविशेषादित्याशङ्क्याऽऽह —

इहेति ।

खं पुराणमित्यादि ब्राह्मणं तस्य च विनियोजकत्वं ध्यानसमवेतार्थप्रकाशनसामर्थ्यात् । यद्यपि मन्त्रनिष्ठं सामर्थ्यं विनियोजकं तथाऽपि मन्त्रब्राह्मणयोरेकार्थत्वाद्ब्राह्मणस्य सामर्थ्यद्वारा विनियोजकत्वमविरुद्धमिति भावः । अत्रेति मन्त्रोक्तिः ।

विशेषणविशेष्यत्वे यथोक्तसामानाधिकरण्यं हेतूकरोति —

विशेषणेति ।

ब्रह्मेत्युक्ते सत्याकाङ्क्षाभावात्किं विशेषणेनेत्याशङ्क्याऽऽह —

ब्रह्मशब्द इति ।

निरुपाधिकस्य सोपाधिकस्य वा ब्रह्मणो विशेषणत्वेऽपि कथं तस्मिन्नोंशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —

यत्तदिति ।

किमिति यथोक्ते ब्रह्मण्योंशब्दो मन्त्रे प्रयुज्यते तत्राऽऽह —

इह चेति ।

ओंशब्दो ब्रह्मोपासने साधनमित्यत्र मानमाह —

तथा चेति ।

सापेक्षं श्रैष्ठ्यं वारयति —

परमिति ।

आदिशब्देन प्रणवो धनुरित्यादि गृह्यते ।

ओं ब्रह्मेति सामानाधिकरण्योपदेशस्य ब्रह्मोपासने साधनत्वमोङ्कारस्येत्यस्मादर्थान्तरासंभवाच्च तस्य तत्साधानत्वमेष्टव्यमित्याह —

अन्यार्थेति ।

एतदेव प्रपञ्चयति —

यथेत्यादिना ।

अन्यत्रेति । तैत्तिरीयश्रुतिग्रहणम् । अपवर्गः स्वाध्यायावसानम् ।

अर्थान्तरावगतेरभावे फलितमाह —

तस्मादिति ।

ननु शब्दान्तरेष्वपि ब्रह्मवाचकेषु सत्सु किमित्योंशब्द एव ध्यानसाधनत्वेनोपदिश्यते तत्राऽऽह —

यद्यपीति ।

नेदिष्ठं निकटतमं संप्रियतममित्यर्थः ।

प्रियतमत्वप्रयुक्तं फलमाह —

अत एवेति ।

साधनत्वेऽवान्तरविशेषं दर्शयति —

तच्चेति ।

प्रतीकत्वेन कथं साधनत्वमिति पृच्छति —

प्रतीकत्वेनेति ।

कथमित्यध्याहारः ।

परिहरति —

यथेति ।

ओङ्कारो ब्रह्मेति प्रतिपत्तौ किं स्यात्तदाह —

तथा हीति ।