ओं खं ब्रह्म । खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदैनेन यद्वेदितव्यम् ॥ १ ॥
तत्र खमिति भौतिके खे प्रतीतिर्मा भूत् इत्याह — खं पुराणं चिरन्तनं खं परमात्माकाशमित्यर्थः । यत्तत्परमात्माकाशं पुराणं खम् , तत् चक्षुराद्यविषयत्वात् निरालम्बनम् अशक्यं ग्रहीतुमिति श्रद्धाभक्तिभ्यां भावविशेषेण च ओङ्कारे आवेशयति — यथा विष्ण्वङ्गाङ्कितायां शिलादिप्रतिमायां विष्णुं लोकः, एवम् । वायुरं खम् , वायुः अस्मिन्विद्यत इति वायुरम् , खं खमात्रं खमित्युच्यते, न पुराणं खम् — इत्येवम् आह स्म । कोऽसौ ? कौरव्यायणीपुत्रः । वायुरे हि खे मुख्यः खशब्दव्यवहारः ; तस्मान्मुख्ये संप्रत्ययो युक्त इति मन्यते । तत्र यदि पुराणं खं ब्रह्म निरुपाधिस्वरूपम् , यदि वा वायुरं खं सोपाधिकं ब्रह्म, सर्वथापि ओङ्कारः प्रतीकत्वेनैव प्रतिमावत् साधनत्वं प्रतिपद्यते, ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः’ (प्र. उ. ५ । २) इति श्रुत्यन्तरात् । केवलं खशब्दार्थे विप्रतिपत्तिः । वेदोऽयम् ओङ्कारः, वेद विजानाति अनेन यद्वेदितव्यम् तस्माद्वेदः ओङ्कारः वाचकः अभिधानम् ; तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमानम् अभिधीयमानं वेद साधको विजानाति उपलभते, तस्मात् वेदोऽयमिति ब्राह्मणा विदुः ; तस्मात् ब्राह्मणानामभिधानत्वेन साधनत्वमभिप्रेतम् ओङ्कारस्य । अथवा वेदोऽयमित्यादि अर्थवादः ; कथम् ओङ्कारः ब्रह्मणः प्रतीकत्वेन विहितः ; ओं खं ब्रह्म इति सामानाधिकरण्यात् तस्य स्तुतिः इदानीं वेदत्वेन ; सर्वो हि अयं वेद ओङ्कार एव ; एतत्प्रभवः एतदात्मकः सर्वः ऋग्यजुःसामादिभेदभिन्नः एष ओङ्कारः, ‘तद्यथा शङ्कुना सर्वाणि पर्णानि’ (छा. उ. २ । २३ । ३) इत्यादिश्रुत्यन्तरात् ; इतश्चायं वेदः ओङ्कारः, यद्वेदितव्यम् , तत्सर्वं वेदितव्यम् ओङ्कारेणैव वेद एनेन ; अतः अयमोङ्कारो वेदः ; इतरस्यापि वेदस्य वेदत्वम् अत एव ; तस्मात् विशिष्टोऽयमोङ्कारः साधनत्वेन प्रतिपत्तव्य इति । अथवा वेदः सः ; कोऽसौ ? यं ब्राह्मणा विदुः ओङ्कारम् ; ब्राह्मणानां हि असौ प्रणवोद्गीथादिविकल्पैर्विज्ञेयः ; तस्मिन्हि प्रयुज्यमाने साधनत्वेन सर्वो वेदः प्रयुक्तो भवतीति ॥