बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति व्यज्ञासिष्मेति होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १ ॥
अधुना दमादिसाधनत्रयविधानार्थोऽयमारम्भः — त्रयाः, त्रिसङ्ख्याकाः प्राजापत्याः प्रजापतेरपत्यानि प्राजापत्याः, ते किम् ? प्रजापतौ पितरि ब्रह्मचर्यं शिष्यत्ववृत्तेर्ब्रह्मचर्यस्य प्राधान्यात् शिष्याः सन्तो ब्रह्मचर्यम् ऊषुः उषितवन्त इत्यर्थः । के ते ? विशेषतः देवा मनुष्या असुराश्च । ते च उषित्वा ब्रह्मचर्यं किमकुर्वन्नित्युच्यते — तेषां देवा ऊचुः पितरं प्रजापतिम् । किमिति ? ब्रवीतु कथयतु, नः अस्मभ्यम् यदनुशासनं भवानिति । तेभ्यः एवमर्थिभ्यः ह एतदक्षरं वर्णमात्रम् उवाच — द इति । उक्त्वा च तान् पप्रच्छ पिता — किं व्यज्ञासिष्टा३ इति, मया उपदेशार्थमभिहितस्याक्षरस्य अर्थं विज्ञातवन्तः आहोस्विन्नेति । देवा ऊचुः — व्यज्ञासिष्मेति, विज्ञातवन्तो वयम् । यद्येवम् , उच्यतां किं मयोक्तमिति । देवा ऊचुः — दाम्यत, अदान्ता यूयं स्वभावतः अतो दान्ता भवतेति नः अस्मान् आत्थ कथयसि । इतर आह — ओमिति सम्यग्व्यज्ञासिष्टेति ॥

ब्राह्मणान्तरस्य तात्पर्यमाह —

अधुनेति ।

तद्विधानं सर्वोपास्तिशेषत्वेनेति द्रष्टव्यम् । आख्यायिकाप्रवृत्तिरारम्भः । पितरि ब्रह्मचर्यमूषुरिति संबन्धः ।

प्रजापतिसमीपे ब्रह्मचर्यवासमात्रेण किमित्यसौ देवादिभ्यो हितं ब्रूयादित्याशङ्क्याऽऽह —

शिष्यत्वेति ।

शिष्यभावेन वृत्तेः संबन्धिनो ये धर्मास्तेषां मध्ये ब्रह्मचर्यस्येत्यादि योज्यम् । तेषामिति निर्धारणे षष्ठी । ऊहापोहशक्तानामेव शिष्यत्वमिति द्योतनार्थो हशब्दः ।

विचारार्था प्लुतिरित्यङ्गीकृत्य प्रश्नमेव व्याचष्टे —

मयेति ।

ओमित्यनुज्ञामेव विभजते —

सम्यगिति ॥१॥