समानत्वेनोत्तरस्य सर्वस्यैवार्थवादस्याव्याख्येयत्वे प्राप्ते दत्तेत्यत्र तात्पर्यमाह —
स्वभावत इति ।
दानमेव लोभत्यागरूपमुपदिष्टमिति कुतो निर्दिष्टं किन्त्वन्यदेव हितं किञ्चिदादिष्टं किं न स्यादित्याशङ्क्याऽऽह —
किमन्यदिति ॥२॥
यथा देवां मनुष्याश्च स्वाभिप्रायानुसारेण दकारश्रवणे सत्यर्थं जगृहुस्तथेति यावत् ।