दयध्वमित्यत्र तात्पर्यमीरयति —
क्रूरा इति ।
हिंसादीत्यादिशब्देन परस्वापहारादि गृह्यते ।
प्रजापतेरनुशासनं प्रागासीदित्यत्र लिङ्गमाह —
तदेतदिति ।
अनुशासनस्यानुवृत्तिमेवं व्याकरोति —
यः पूर्वमिति ।
द इति विसन्धिकरणं सर्वत्र वर्णान्तरभ्रमापोहार्थम् । यथा दकारत्रयमत्र विवक्षितं तथा स्तनयित्नुशब्देऽपि त्रित्वं विवक्षितं चेत्प्रसिद्धिविरोधः स्यादित्याशङ्क्याऽऽह —
अनुकृतिरिति ।
दशब्दानुकारमात्रमत्र विवक्षितं न तु स्तनयित्नुशब्दे त्रित्वं प्रमाणाभावादित्यर्थः ।
प्रकृतस्यार्थवादस्य विधिपर्यवसायित्वं फलितमाह —
यस्मादिति ।
उपादानप्रकारमेवाभिनयति —
प्रजापतेरिति ।
श्रुतिसिद्धविध्यनुसारेण भगवद्वाक्यप्रवृत्तिं दर्शयति —
तथा चेति ।
तदेतत्त्रयं शिक्षेदित्येष विधिश्चेत्कृतं त्रयाः प्राजापत्या इत्यादिना ग्रन्थेनेत्याशङ्क्य यस्मादित्यादिना सूचितमाह —
अस्येति ।
सर्वैरेव त्रयमनुष्ठेयं चेत्तर्हि देवादीनुद्दिश्य दकारत्रयोच्चारणमनुपपन्नमिति शङ्कते —
तथेति ।
दमादित्रयस्य सर्वैरनुष्ठेयत्वे सतीति यावत् ।
किञ्च पृथक्पृथगनुशासनार्थिनो देवादयस्तेभ्यो दकारमात्रोच्चारणेनापेक्षितमनुशासनं सिद्ध्यतीत्याह —
पृथगिति ।
किमर्थमित्यादिना पूर्वेण संबन्धः ।
दकारमात्रमुच्चारयतोऽपि प्रजापतेर्विभागेनानुशासनमभिसंहितमित्याशङ्क्याऽऽह —
ते वेति ।
त्रयं सर्वैरनुष्ठेयमिति परस्य सिद्धान्तिनोऽभिप्रायस्तदभिज्ञाः सन्तो यथोक्तनीत्या विकल्पयन्तीति योजना । पराभिप्रायज्ञा इत्युपहासो वा परस्य प्रजापतेर्मनुष्यादीनां चाभिप्रायज्ञा इति । नञुल्लेखी वा पाठः ।
एकीयं परिहारमुत्थापयति —
अत्रेति ।
अस्तु तेषामेषा शङ्का तथाऽपि दकारमात्रात्कीदृशी प्रतिपत्तिरित्याशङ्क्याऽऽह —
तेषां चेति ।
तदर्थो दकारार्थो दमादिस्तस्य प्रतिपत्तिस्तद्द्वारेणादान्तत्वादिनिवृत्तिरासीदित्यर्थः ।
किमिति प्रजापतिर्दोषज्ञापनद्वारेण ततो देवादीननुशास्यान्दोषान्निवर्तयिष्यति तत्राऽऽह —
लोकेऽपीति ।
दकारोच्चारणस्य प्रयोजने सिद्धे फलितमाह —
अत इति ।
यत्तूक्तं ते वा कथमित्यादि तत्राऽऽह —
दमादीति ।
प्रतिपत्तुं च युक्तं दमादीति शेषः । इतिशब्दः स्वयूथ्यमतसमाप्त्यर्थः ।
परोक्तं परिहारमङ्गीकृत्याऽख्यायिकातात्पर्यं सिद्धान्ती ब्रूते —
फलं त्विति ।
निर्ज्ञातदोषा देवादयो यथा दकारमात्रेण ततो निवर्त्यन्त इति शेषः । इतिशब्दो दार्ष्टान्तिकप्रदर्शनार्थः ।
विशिष्टान्प्रत्यनुशासनस्य प्रवृत्तत्वादस्माकं तदभावादनुपादेयं दमादीति शङ्कते —
नन्विति ।
किञ्च देवादिभिरपि प्रातिस्विकानुशासनवशादेकैकमेव दमाद्यनुष्ठेयं न तत्त्रयमित्याह —
देवादिभिरिति ।
यथा पूर्वस्मिन्काले देवादिभिरेकैकमेवोपादेयमित्युक्तं तथा वर्तमानेऽपि काले मनुष्यैरेकैकमेव कर्तव्यं पूर्वाचारानुसारान्न तु त्रयं शिक्षितव्यं तथा च कस्यायं विधिरित्याह —
अद्यत्वेऽपीति ।
आचारप्रामाण्यमाश्रित्य परिहरति —
अत्रेति ।
इत्येकैकमेव नोपादेयमिति शेषः ।
दयालुत्वस्यानुष्ठेयत्वमाक्षिपति —
तत्रेति ।
मध्ये दमादीनामिति यावत् ।
असुरैरनुष्ठितत्वेऽपि दयालुत्वमनुष्ठेयं हितसाधनत्वाद्दानादिवदिति परिहरति —
नेत्यादिना ।
देवादिषु प्रजापतेरविशेषात्तेभ्यस्तदुपदिष्टमद्यत्वेऽपि सर्वमनुष्ठेयमित्यर्थः ।
हितस्यैवोपदेष्टव्यत्वेऽपि तदज्ञानात्प्रजापतिरन्यथोपदिशतीत्याशङ्क्याऽऽह —
प्रजापतिश्चेति ।
हितज्ञस्य पितुरहितोपदेशित्वाभावस्तस्मादित्युक्तः ।
विशिष्टैरनुष्ठितस्यास्मदादिभिरनुष्ठेयत्वे फलितमाह —
अत इति ।
प्राजापत्या देवादयो विग्रहवन्तः सन्तीत्यर्थवादस्य यथाश्रुतेऽर्थे प्रामाण्यमभ्युपगम्य दकारत्रयस्य तात्पर्यं सिद्धमिति । वक्तुमितिशब्दः ।
संप्रति कर्ममीमांसकमतमनुसृत्याऽऽह —
अथवेति ।
कथं मनुष्येष्वेव देवासुरत्वं तत्राऽऽह —
मनुष्याणामिति ।
अन्ये गुणा ज्ञानादयः ।
किं पुनर्मनुष्येषु देवादिशब्दप्रवृत्तौ निमित्तं तदाह —
अदान्तत्वादीति ।
देवादिशब्दप्रवृत्तौ निमित्तान्तरमाह —
इतरांश्चेति ।
मनुष्येष्वेव देवादिशब्दप्रवृत्तौ फलितमाह —
अत इति ।
इतिशब्दो विध्युपपत्तिप्रदर्शनार्थः ।
मनुष्यैरेव त्रयं शिक्षितव्यमित्यत्र हेतुमाह —
तदपेक्षयेति ।
मनुष्याणामेव देवादिभावे प्रमाणमाह —
तथा हीति ।
त्रयं शिक्षितव्यमित्यत्र स्मृतिमुदाहरति —
तथा चेति ।
इतिशब्दो ब्राह्मणसमाप्त्यर्थः ॥३॥