बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं हृदयमिति हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ॥ १ ॥
एष प्रजापतिः यद्धृदयं प्रजापतिः अनुशास्तीत्यनन्तरमेवाभिहितम् । कः पुनरसौ अनुशास्ता प्रजापतिरित्युच्यते — एष प्रजापतिः ; कोसौ ? यद्धृदयम् , हृदयमिति हृदयस्था बुद्धिरुच्यते ; यस्मिन् शाकल्यब्राह्मणान्ते नामरूपकर्मणामुपसंहार उक्तो दिग्विभागद्वारेण, तदेतत् सर्वभूतप्रतिष्ठं सर्वभूतात्मभूतं हृदयं प्रजापतिः प्रजानां स्रष्टा ; एतत् ब्रह्म, बृहत्त्वात् सर्वात्मत्वाच्च ब्रह्म ; एतत्सर्वम् ; उक्तं पञ्चमाध्याये हृदयस्य सर्वत्वम् ; तत्सर्वं यस्मात् तस्मादुपास्यं हृदयं ब्रह्म । तत्र हृदयनामाक्षरविषयमेव तावत् उपासनमुच्यते ; तदेतत् हृदयमिति नाम त्र्यक्षरम् , त्रीणि अक्षराणि अस्येति त्र्यक्षरम् ; कानि पुनस्तानि त्रीण्यक्षराण्युच्यन्ते ; हृ इत्येकमक्षरम् ; अभिहरन्ति, हृतेराहृतिकर्मणः हृ इत्येतद्रूपमिति यो वेद, यस्मात् हृदयाय ब्रह्मणे स्वाश्च इन्द्रियाणि अन्ये च विषयाः शब्दादयः स्वं स्वं कार्यमभिहरन्ति, हृदयं च भोक्त्रर्थमभिहरति — अतः हृदयनाम्नः हृ इत्येतदक्षरमिति यो वेद — अस्मै विदुषे अभिहरन्ति स्वाश्च ज्ञातयः अन्ये चासम्बद्धाः, बलिमिति वाक्यशेषः । विज्ञानानुरूप्येण एतत्फलम् । तथा द इत्येतदप्येकमक्षरम् ; एतदपि दानार्थस्य ददातेः द इत्येतद्रूपं हृदयनामाक्षरत्वेन निबद्धम् । अत्रापि — हृदयाय ब्रह्मणे स्वाश्च करणानि अन्ये च विषयाः स्वं स्वं वीर्यं ददति, हृदयं भोक्त्रे ददाति स्वं वीर्यम् , अतो दकार इत्येवं यो वेद, अस्मै ददति स्वाश्च अन्ये च । तथा यमित्येतदप्येकमक्षरम् ; इणो गत्यर्थस्य यमित्येतद्रूपम् अस्मिन्नाम्नि निबद्धमिति यो वेद, स स्वर्गं लोकमेति । एवं नामाक्षरादपि ईदृशं विशिष्टं फलं प्राप्नोति, किमु वक्तव्यं हृदयस्वरूपोपासनात् — इति हृदयस्तुतये नामाक्षरोपन्यासः ॥

सार्थवादेन विधिना सिद्धमर्थमनुवदति —

दमादीति ।

कथं तस्य सर्वोपासनशेषत्वं तदाह —

दान्त इति ।

अलुब्ध इति च्छेदः संप्रत्युत्तरसन्दर्भस्य तात्पर्यं वक्तुं भूमिकां करोति —

तत्रेति ।

काण्डद्वयं सप्तम्यर्थः ।

अनन्तरसन्दर्भस्य तात्पर्यमाह —

अथेति ।

पापक्षयादिरभ्युदयस्तत्फलान्युपासनानीति शेषः ।

अनन्तरब्राह्मणमादाय तस्य संगतिमाह —

एष इत्यादिना ।

उक्तस्य हृदयशब्दार्थस्य पाञ्चमिकत्वं दर्शयन्प्रजापतित्वं साधयति —

यस्मिन्निति ।

कथं हृदयस्य सर्वत्वं तदाह —

उक्तमिति ।

सर्वत्वसंकीर्तनफलमाह —

तत्सर्वमिति ।

तत्र हृदयस्योपास्यत्वे सिद्धे सतीत्येतत् ।

फलोक्तिमुत्थाप्य व्याकरोति —

अभिहरन्तीति ।

यो वेदास्मै विदुषेऽभिहन्तीति संबन्धः ।

वेदनमेव विशदयति —

यस्मादित्यादिना ।

स्वं कार्यं रूपदर्शनादि । हृदयस्य तु कार्यम् । सुखादि । असंबद्धा ज्ञातिव्यतिरिक्ताः ।

औचित्यमुक्ते फले कथयति —

विज्ञानेति ।

अत्रापीति दकाराक्षरोपासनेऽपि फलमुच्यत इति शेषः ।

तामेव फलोक्तिं व्यनक्ति —

हृदयायेति ।

अस्मै विदुषे स्वाश्चान्ये च ददति । बलिमिति शेषः ।

नामाक्षरोपासनानि त्रीणि हृदयस्वरूपोपासनमेकमिति चत्वार्युपासानान्यत्र विवक्षितानीत्याशङ्क्याऽऽह —

एवमिति ॥१॥