आप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिं प्रजापतिर्देवांस्ते देवाः सत्यमेवोपासते तदेतत्त्र्यक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरं यमित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं तदेतदनृतमुभयतः सत्येन परिगृहीतं सत्यभूयमेव भवति नैवं विद्वांसमनृतं हिनस्ति ॥ १ ॥
सत्यस्य ब्रह्मणः स्तुत्यर्थमिदमाह । महद्यक्षं प्रथमजमित्युक्तम् , तत्कथं प्रथमजत्वमित्युच्यते — आप एवेदमग्र आसुः ; आप इति कर्मसमवायिन्यः अग्निहोत्राद्याहुतयः ; अग्निहोत्राद्याहुतेः द्रवात्मकत्वात् अप्त्वम् ; ताश्च आपः अग्निहोत्रादिकर्मापवर्गोत्तरकालं केनचिददृष्टेन सूक्ष्मेण आत्मना कर्मसमवायित्वमपरित्यजन्त्यः इतरभूतसहिता एव न केवलाः, कर्मसमवायित्वात्तु प्राधान्यमपाम् — इति सर्वाण्येव भूतानि प्रागुत्पत्तेः अव्याकृतावस्थानि कर्तृसहितानि निर्दिश्यन्ते ‘आपः’ इति ; ता आपः बीजभूता जगतः अव्याकृतात्मना अवस्थिताः ; ता एव इदं सर्वं नामरूपविकृतं जगत् अग्रे आसुः, नान्यत्किञ्चिद्विकारजातमासीत् ; ताः पुनः आपः सत्यमसृजन्त ; तस्मात्सत्यं ब्रह्म प्रथमजम् ; तदेतत् हिरण्यगर्भस्य सूत्रात्मनो जन्म, यदव्याकृतस्य जगतो व्याकरणम् , तत् सत्यं ब्रह्म कुतः ? महत्त्वात् ; कथं महत्त्वमित्याह — यस्मात् सर्वस्य स्रष्टृ ; कथम् ? यत्सत्यं ब्रह्म, तत् प्रजापतिं प्रजानां पतिं विराजं सूर्यादिकरणम् असृजतेत्यनुषङ्गः ; प्रजापतिः देवान् , स विराट् प्रजापतिः देवानसृजत ; यस्मात् सर्वमेवं क्रमेण सत्याद्ब्रह्मणो जातम् , तस्मान्महत्सत्यं ब्रह्म । कथं पुनर्यक्षमित्युच्यते — ते एवं सृष्टा देवाः पितरमपि विराजमतीत्य, तदेव सत्यं ब्रह्म उपासते ; अत एतत् प्रथमजं महत् यक्षम् ; तस्मात् सर्वात्मना उपास्यं तत् ; तस्यापि सत्यस्य ब्रह्मणो नाम सत्यमिति ; तदेतत् त्र्यक्षरम् ; कानि तान्यक्षराणीत्याह — स इत्येकमक्षरम् ; तीत्येकमक्षरम् , तीति ईकारानुबन्धो निर्देशार्थः ; यमित्येकमक्षरम् ; तत्र तेषां प्रथमोत्तमे अक्षरे सकारयकारौ सत्यम् , मृत्युरूपाभावात् ; मध्यतः मध्ये अनृतम् ; अनृतं हि मृत्युः मृत्य्वनृतयोः तकारसामान्यात् । तदेतत् अनृतं तकाराक्षरं मृत्युरूपम् उभयतः सत्येन सकारयकारलक्षणेन परिगृहीतं व्याप्तम् अन्तर्भावितं सत्यरूपाभ्याम् , अतः अकिञ्चित्करं तत् , सत्यभूयमेव सत्यबाहुल्यमेव भवति ; एवं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्य अकिञ्चित्करत्वं च यो विद्वान् , तमेवं विद्वांसम् अनृतं कदाचित् प्रमादोक्तं न हिनस्ति ॥