बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति ॥ २ ॥
अस्याधुना सत्यस्य ब्रह्मणः संस्थानविशेषे उपासनमुच्यते — तद्यत् ; किं तत् ? सत्यं ब्रह्म प्रथमजम् ; किम् ? असौ सः ; कोऽसौ ? आदित्यः ; कः पुनरसावादित्यः ? य एषः ; क एषः ? यः एतस्मिन् आदित्यमण्डले पुरुषः अभिमानी, सोऽसौ सत्यं ब्रह्म । यश्चायम् अध्यात्मम् योऽयं दक्षिणेऽक्षन् अक्षणि पुरुषः ; च - शब्दात् स च सत्यं ब्रह्मेति सम्बन्धः । तावेतौ आदित्याक्षिस्थौ पुरुषौ एकस्य सत्यस्य ब्रह्मणः संस्थानविशेषौ यस्मात् , तस्मात् अन्योन्यस्मिन् इतरेतरस्मिन् आदित्यश्चाक्षुषे चाक्षुषश्च आदित्ये प्रतिष्ठितौ, अध्यात्माधिदैवतयोः अन्योन्योपकार्योपकारकत्वात् ; कथं प्रतिष्ठितावित्युच्यते — रश्मिभिः प्रकाशेन अनुग्रहं कुर्वन् एष आदित्यः अस्मिंश्चाक्षुषे अध्यात्मे प्रतिष्ठितः ; अयं च चाक्षुषः प्राणैरादित्यमनुगृह्णन् अमुष्मिन् आदित्ये अधिदैवे प्रतिष्ठितः ; सः अस्मिन् शरीरे विज्ञानमयो भोक्ता यदा यस्मिन्काले उत्क्रमिष्यन्भवति, तदा असौ चाक्षुष आदित्यपुरुषः रश्मीनुपसंहृत्य केवलेन औदासीन्येन रूपेण व्यवतिष्ठते ; तदा अयं विज्ञानमयः पश्यति शुद्धमेव केवलं विरश्मि एतन्मण्डलं चन्द्रमण्डलमिव ; तदेतत् अरिष्टदर्शनम् प्रासङ्गिकं प्रदर्श्यते, कथं नाम पुरुषः करणीये यत्नवान्स्यादिति ; न — एवं चाक्षुषं पुरुषमुररीकृत्य तं प्रत्यनुग्रहाय एते रश्मयः स्वामिकर्तव्यवशात्पूर्वमागच्छन्तोऽपि, पुनः तत्कर्मक्षयमनुरुध्यमाना इव नोपयन्ति न प्रत्यागच्छन्ति एनम् । अतोऽवगम्यते परस्परोपकार्योपकारकभावात् सत्यस्यैव एकस्य आत्मनः अंशौ एताविति ॥

ब्राह्मणान्तरमवतार्य व्याकरोति —

अस्येत्यादिना ।

तत्राऽऽधिदैविकं स्थानविशेषमुपन्यस्यति —

तदित्यादिना ।

संप्रत्याध्यात्मिकं स्थानविशेषं दर्शयति —

यश्चेति ।

प्रदेशभेदवर्तिनोः स्थानभेदेन भेदं शङ्कित्वा परिहरति —

तावेताविति ।

अन्योन्यमुपकार्योपकारकत्वेनान्योन्यस्मिन्प्रतिष्ठितत्वं प्रश्नपूर्वकं प्रकटयति —

कथमित्यादिना ।

प्राणैश्चक्षुरादिभिरिन्द्रियैरिति यावत् । अनुगृह्णन्नादित्यमण्डलात्मानं प्रकाशयन्नित्यर्थः । प्रासंगिकमुपासनाप्रसंगागतमित्यर्थः ।

तत्प्रदर्शनस्य किं फलमित्याशङ्क्याऽऽह —

कथमिति ।

पुरुषद्वयस्यान्योन्यमुपकार्योपकारकत्वमुक्तं निगमयति —

नेत्यादिना ।

पुनःशब्देन मृतेरुत्तरकालो गृह्यते । रश्मीनामचेतनत्वादिशब्दः । पुनर्नकारोच्चारणमन्वयप्रदर्शनार्थम् ॥२॥