बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३ ॥
तत्र यः, असौ कः ? यः एषः एतस्मिन्मण्डले पुरुषः सत्यनामा ; तस्य व्याहृतयः अवयवाः ; कथम् ? भूरिति येयं व्याहृतिः, सा तस्य शिरः, प्राथम्यात् ; तत्र सामान्यं स्वयमेवाह श्रुतिः — एकम् एकसङ्ख्यायुक्तं शिरः, तथा एतत् अक्षरम् एकं भूरिति । भुव इति बाहू, द्वित्वसामान्यात् ; द्वौ बाहू, द्वे एते अक्षरे । तथा स्वरिति प्रतिष्ठा ; द्वे प्रतिष्ठे द्वे एते अक्षरे ; प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति । तस्यास्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मण उपनिषत् रहस्यम् अभिधानम् , येनाभिधानेन अभिधीयमानं तद्ब्रह्म अभिमुखी भवति लोकवत् ; कासावित्याह — अहरिति ; अहरिति चैतत् रूपं हन्तेर्जहातेश्चेति यो वेद, स हन्ति जहाति च पाप्मानं य एवं वेद ॥

तत्र स्थानद्वयसंबन्धिनः सत्यस्य ब्रह्मणो ध्याने प्रस्तुते सतीत्यर्थः । तत्रेति प्रथमव्याहृतौ शिरोदृष्ट्यारोपे विवक्षिते । तस्योपनिषदित्यादि व्याचष्टे —

तस्येत्यादिना ।

यथा लोके गवादिः स्वेनाभिधानेनाभिधीयमानः संमुखीभवति तद्वदित्याह —

लोकवदिति ।

नामोपास्तिफलमाह —

अहरिति चेति ॥३॥