बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४ ॥
एवं योऽयं दक्षिणेऽक्षन्पुरुषः, तस्य भूरिति शिर इत्यादि सर्वं समानम् । तस्योपनिषत् — अहमिति, प्रत्यगात्मभूतत्वात् । पूर्ववत् हन्तेः जहातेश्चेति ॥

यथा मण्डलपुरुषस्य व्याहृत्यवयवस्य सोपनिषत्कस्याधिदैवतमुपासनमुक्तं तथाऽध्यात्मं चाक्षुषपुरुषस्योक्तविशेषणस्योपासनमुच्यते इत्याह —

एवमिति ।

चाक्षुषस्य पुरुषस्य कथमहमित्युपनिषदिष्यते तत्राऽऽह —

प्रत्यगिति ।

हन्तेर्जहातेश्चाहमित्येतद्रूपमिति यो वेद स हन्ति पाप्मानं जहाति चेति पूर्ववत्फलवाक्यं योज्यमित्याह —

पूर्ववदिति ॥४॥