ब्राह्मणान्तरमुत्थापयति —
उपाधीनामिति ।
अनेकविशेषणत्वाच्च प्रत्येकं तेषामिति शेषः ।
तत्प्रायत्वे हेतुमाह —
मनसीति ।
प्रकारान्तरेण तत्प्रायत्वमाह —
मनसा चेति ।
तस्य भास्वररूपत्वं साधयति —
मनस इति ।
तस्य ध्यानार्थं स्थानं दर्शयति —
तस्मिन्निति ।
औपाधिकमिदं परिमाणं स्वाभाविकं त्वानन्त्यमित्यभिप्रेत्याऽऽह —
स एष इति ।
यदुक्तं सर्वस्येशान इति तन्निगमयति —
सर्वमिति ।
यथाऽन्यत्र तथाऽत्राफलमिदमुपासनमकार्यमिति चेन्नेत्याह —
एवमिति ॥१॥