यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहिते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा लम्बरस्य खं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते स लोकमागच्छत्यशोकमहिमं तस्मिन्वसति शाश्वतीः समाः ॥ १ ॥
सर्वेषामस्मिन्प्रकरणे उपासनानां गतिरियं फलं चोच्यते — यदा वै पुरुषः विद्वान् अस्मात् लोकात् प्रैति शरीरं परित्यजति, सः तदा वायुम् आगच्छति, अन्तरिक्षे तिर्यग्भूतो वायुः स्तिमितः अभेद्यस्तिष्ठति ; स वायुः तत्र स्वात्मनि तस्मै सम्प्राप्ताय विजिहीते स्वात्मावयवान् विगमयति छिद्रीकरोत्यात्मानमित्यर्थः । किम्परिमाणं छिद्रमित्युच्यते — यथा रथचक्रस्य खं छिद्रं प्रसिद्धपरिमाणम् ; तेन छिद्रेण स विद्वान् ऊर्ध्वः आक्रमते ऊर्ध्वः सन् गच्छति । स आदित्यमागच्छति ; आदित्यः ब्रह्मलोकं जिगमिषोर्मार्गनिरोधं कृत्वा स्थितः ; सोऽपि एवंविदे उपासकाय द्वारं प्रयच्छति ; तस्मै स तत्र विजिहीते ; यथा लम्बरस्य खं वादित्रविशेषस्य छिद्रपरिमाणम् ; तेन स ऊर्ध्व आक्रमते । स चन्द्रमसम् आगच्छति ; सोऽपि तस्मै तत्र विजिहीते ; यथा दुन्दुभेः खं प्रसिद्धम् ; तेन स ऊर्ध्व आक्रमते । स लोकं प्रजापतिलोकम् आगच्छति ; किंविशिष्टम् ? अशोकं मानसेन दुःखेन विवर्जितमित्येतत् ; अहिमं हिमवर्जितं शारीरदुःखवर्जितमित्यर्थः ; तं प्राप्य तस्मिन् वसति शाश्वतीः नित्याः समाः संवत्सरानित्यर्थः ; ब्रह्मणो बहून्कल्पान् वसतीत्येतत् ॥