बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःएकादशं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
एतद्वै परमं तपो यद्व्याहितस्तप्यते परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परमं हैव लोकं जयति य एवं वेद ॥ १ ॥
एतद्वै परमं तपः ; किं तत् ? यत् व्याहितः व्याधितः ज्वरादिपरिगृहीतः सन् यत् तप्यते तदेतत् परमं तप इत्येवं चिन्तयेत् , दुःखसामान्यात् । तस्य एवं चिन्तयतो विदुषः कर्मक्षयहेतुः तदेव तपो भवति अनिन्दतः अविषीदतः । स एव च तेन विज्ञानतपसा दग्धकिल्बिषः परमं हैव लोकं जयति, य एवं वेद । तथा मुमूर्षुः आदावेव कल्पयति ; किम् ? एतद्वै परमं तपः, यं प्रेतं मां ग्रामादरण्यं हरन्ति ऋत्विजः अन्त्यकर्मणे, तत् ग्रामादरण्यगमनसामान्यात् परमं मम तत् तपो भविष्यति ; ग्रामादरण्यगमनं परमं तप इति हि प्रसिद्धम् । परमं हैव लोकं जयति, य एवं वेद । तथा एतद्वै परमं तपः यं प्रेतमग्नावभ्यादधति, अग्निप्रवेशसामान्यात् । परमं हैव लोकं जयति य एवं वेद ॥

ब्रह्मोपासनप्रसंगेन फलवदब्रह्मोपासनमुपन्यस्यति —

एतदिति ।

यद्व्याहित इति प्रतीकमादाय व्याचष्टे —

ज्वरादीति ।

कर्मक्षयहेतुरित्यत्र कर्मशब्देन पापमुच्यते । परमं हैव लोकमित्यत्र तपसोऽनुकूलं फलं लोकशब्दार्थः ।

अस्तु ग्रामादरण्यगमनं तथाऽपि कथं तपस्त्वमित्याशङ्क्याऽऽह —

ग्रामादिति ॥१॥