बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःद्वादशं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अन्नं ब्रह्मेत्येक आहुस्तन्न तथा पूयति वा अन्नमृते प्राणात्प्राणो ब्रह्मेत्येक आहुस्तन्न तथा शुष्यति वै प्राण ऋतेऽन्नादेते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतस्तद्ध स्माह प्रातृदः पितरं किंस्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति स ह स्माह पाणिना मा प्रातृद कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति तस्मा उ हैतदुवाच वीत्यन्नं वै व्यन्ने हीमानि सर्वाणि भूतानि विष्टानि रमिति प्राणो वै रं प्राणे हीमानि सर्वाणि भूतानि रमन्ते सर्वाणि ह वा अस्मिन्भूतानि विशन्ति सर्वाणि भूतानि रमन्ते य एवं वेद ॥ १ ॥
अन्नं ब्रह्मेति, तथा एतत् उपासनान्तरं विधित्सन्नाह — अन्नं ब्रह्म, अन्नम् अद्यते यत् तत् ब्रह्मेत्येक आचार्या आहुः ; तत् न तथा ग्रहीतव्यम् अन्नं ब्रह्मेति । अन्ये चाहुः — प्राणो ब्रह्मेति ; तच्च तथा न ग्रहीतव्यम् । किमर्थं पुनः अन्नं ब्रह्मेति न ग्राह्यम् ? यस्मात् पूयति क्लिद्यते पूतिभावमापद्यते ऋते प्राणात् , तत्कथं ब्रह्म भवितुमर्हति ; ब्रह्म हि नाम तत् , यदविनाशि । अस्तु तर्हि प्राणो ब्रह्म ; नैवम् ; यस्मात् शुष्यति वै प्राणः शोषमुपैति ऋते अन्नात् ; अत्ता हि प्राणः ; अतः अन्नेन आद्येन विना न शक्नोति आत्मानं धारयितुम् ; तस्मात् शुष्यति वै प्राणः ऋतेऽन्नात् ; अतः एकैकस्य ब्रह्मता नोपपद्यते यस्मात् , तस्मात् एते ह तु एव अन्नप्राणदेवते एकधाभूयम् एकधाभावं भूत्वा गत्वा परमतां परमत्वं गच्छतः ब्रह्मत्वं प्राप्नुतः । तदेतत् एवमध्यवस्य ह स्म आह — स्म प्रातृदो नाम पितरमात्मनः ; किंस्वित् स्विदिति वितर्के ; यथा मया ब्रह्म परिकल्पितम् , एवं विदुषे किंस्वित् साधु कुर्याम् , साधु शोभनं पूजाम् , कां तु अस्मै पूजां कुर्यामित्यभिप्रायः ; किमेव अस्मै विदुषे असाधु कुर्याम् , कृतकृत्योऽसौ इत्यभिप्रायः । अन्नप्राणौ सहभूतौ ब्रह्मेति विद्वान् नासौ असाधुकरणेन खण्डितो भवति, नापि साधुकरणेन महीकृतः । तम् एवंवादिनं स पिता ह स्म आह पाणिना हस्तेन निवारयन् , मा प्रातृद मैवं वोचः । कस्तु एनयोः अन्नप्राणयोः एकधाभूयं भूत्वा परमतां कस्तु गच्छति ? न कश्चिदपि विद्वान् अनेन ब्रह्मदर्शनेन परमतां गच्छति ; तस्मात् नैवं वक्तुमर्हसि कृतकृत्योऽसाविति ; यद्येवम् , ब्रवीतु भवान् कथं परमतां गच्छतीति । तस्मै उ ह एतत् वक्ष्यमाणं वच उवाच । किं तत् ? वीति ; किं तत् वि इत्युच्यते — अन्नं वै वि ; अन्ने हि यस्मात् इमानि सर्वाणि भूतानि विष्टानि आश्रितानि, अतः अन्नं वि इत्युच्यते । किञ्च रम् इति ; रमिति च उक्तवान्पिता ; किं पुनस्तत् रम् ? प्राणो वै रम् ; कुत इत्याह ; प्राणे हि यस्मात् बलाश्रये सति सर्वाणि भूतानि रमन्ते, अतो रं प्राणः । सर्वभूताश्रयगुणमन्नम् , सर्वभूतरतिगुणश्च प्राणः । न हि कश्चिदनायतनः निराश्रयः रमते ; नापि सत्यप्यायतने अप्राणो दुर्बलो रमते ; यदा तु आयतनवान्प्राणी बलवांश्च तदा कृतार्थमात्मानं मन्यमानो रमते लोकः ; ‘युवा स्यात्साधुयुवाध्यायकः’ (तै. उ. २ । ८ । ३) इत्यादिश्रुतेः । इदानीम् एवंविदः फलमाह — सर्वाणि ह वै अस्मिन् भूतानि विशन्ति अन्नगुणज्ञानात् , सर्वाणि भूतानि रमन्ते प्राणगुणज्ञानात् , य एवं वेद ॥

ब्राह्मणान्तरं गृहीत्वा तात्पर्यमाह —

अन्नमिति ।

यथा पूर्वस्मिन्ब्राह्मणे फलवदब्रह्मोपासनमुक्तं तद्वदित्याह —

तथेति ।

एतदिति ब्रह्मविषयोक्तिः ।

उपास्यं ब्रह्म निर्धारयितुं विचारयति —

अन्नमित्यादिना ।

अन्नस्य विनाशित्वेऽपि ब्रह्मत्वं किं न स्यादत आह —

ब्रह्म हीति ।

कथमन्नं विना प्राणस्य शोषप्राप्तिस्तत्राऽऽह —

अत्ता हीति ।

प्रत्येकं नाशित्वमतःशब्दार्थः ।

किंस्विदित्यादिवाक्यस्यार्थं विवृणोति —

अन्नप्राणाविति ।

कस्त्विति प्रतीकमादाय व्याकरोति —

एनयोरिति ।

यद्येवमुक्तरीत्या परमत्वं यदि नास्तीत्यर्थः ।

उक्तमसंकीर्णं गुणद्वयं संक्षिप्याऽऽह —

सर्वभूतेति ।

अन्नगुणं विना प्राणगुणादेतद्व्यानं सिद्ध्यतीत्याशङ्क्याऽऽह —

न हीति ।

प्राणगुणस्याप्यन्नगुणत्वसंभवादलं प्राणेनेत्याशङ्क्याऽऽह —

नापीति ।

गुणद्वयस्य परस्परापेक्षामनुभवानुसारेण स्फोरयति —

यदा त्विति ।

आयतनवतो बलवतश्च कृतार्थतेत्यत्र तैत्तिरीयश्रुतिं संवादयति —

युवा स्यादिति ।

आशिष्ठो दृढिष्ठो बलिष्ठस्तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादित्येतदादिशब्देन गृह्यते ॥१॥