उक्थं प्राणो वा उक्थं प्राणो हीदं सर्वमुत्थापयत्युद्धास्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ १ ॥
उक्थम् — तथा उपासनान्तरम् ; उक्थं शस्त्रम् ; तद्धि प्रधानं महाव्रते क्रतौ ; किं पुनस्तदुक्थम् ; प्राणो वै उक्थम् ; प्राणश्च प्रधान इन्द्रियाणाम् , उक्थं च शस्त्राणाम् , अत उक्थमित्युपासीत । कथं प्राण उक्थमित्याह — प्राणः हि यस्मात् इदं सर्वम् उत्थापयति ; उत्थापनात् उक्थं प्राणः ; न हि अप्राणः कश्चिदुत्तिष्ठति ; तदुपासनफलमाह — उत् ह अस्मात् एवंविदः उक्थवित् प्राणवित् वीरः पुत्रः उत्तिष्ठति ह — दृष्टम् एतत्फलम् ; अदृष्टं तु उक्थस्य सायुज्यं सलोकतां जयति, य एवं वेद ॥