बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःत्रयोदशं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ २ ॥
यजुरिति चोपासीत प्राणम् ; प्राणो वै यजुः ; कथं यजुः प्राणः ? प्राणे हि यस्मात् सर्वाणि भूतानि युज्यन्ते ; न हि असति प्राणे केनचित् कस्यचित् योगसामर्थ्यम् ; अतो युनक्तीति प्राणो यजुः । एवंविदः फलमाह — युज्यन्ते उद्यच्छन्ते इत्यर्थः, ह अस्मै एवंविदे, सर्वाणि भूतानि, श्रैष्ठ्यं श्रेष्ठभावः तस्मै श्रैष्ठ्याय श्रेष्ठभावाय, अयं नः श्रेष्ठो भवेदिति ; यजुषः प्राणस्य सायुज्यमित्यादि सर्वं समानम् ॥

यजुःशब्दस्यान्यत्र रूढत्वादयुक्तं प्राणविषयत्वमिति शङ्कित्वा परिहरति —

कथमित्यादिना ।

असत्यपि प्राणे योगः संभवतीत्याशङ्क्याऽऽह —

न हीति ।

प्रकरणानुगृहीतप्राणशब्दश्रुत्या यजुःशब्दस्य रूढिं त्यक्त्वा योगोऽङ्गीक्रियत इत्याह —

अत इति ॥२॥