यजुःशब्दस्यान्यत्र रूढत्वादयुक्तं प्राणविषयत्वमिति शङ्कित्वा परिहरति —
कथमित्यादिना ।
असत्यपि प्राणे योगः संभवतीत्याशङ्क्याऽऽह —
न हीति ।
प्रकरणानुगृहीतप्राणशब्दश्रुत्या यजुःशब्दस्य रूढिं त्यक्त्वा योगोऽङ्गीक्रियत इत्याह —
अत इति ॥२॥