मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायः
त्रयोदशं ब्राह्मणम्
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (बृहदारण्यक)
साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ३ ॥
सामेति चोपासीत प्राणम् । प्राणो वै साम ; कथं प्राणः साम ? प्राणे हि यस्मात् सर्वाणि भूतानि सम्यञ्चि सङ्गच्छन्ते, सङ्गमनात् साम्यापत्तिहेतुत्वात् साम प्राणः ; सम्यञ्चि सङ्गच्छन्ते ह अस्मै सर्वाणि भूतानि ; न केवलं सङ्गच्छन्त एव, श्रेष्ठभावाय च अस्मै कल्पन्ते समर्थ्यन्ते ; साम्नः सायुज्यमित्यादि पूर्ववत् ॥
साम्येति ॥३॥
;
संगमनादित्येतदेव व्याचष्टे —
साम्येति ॥३॥