बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःत्रयोदशं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
क्षत्त्रं प्राणो वै क्षत्त्रं प्राणो हि वै क्षत्त्रं त्रायते हैनं प्राणः क्षणितोः प्र क्षत्त्रमत्रमाप्नोति क्षत्त्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ४ ॥
तं प्राणं क्षत्त्रमित्युपासीत । प्राणो वै क्षत्त्रम् ; प्रसिद्धम् एतत् — प्राणो हि वै क्षत्त्रम् । कथं प्रसिद्धतेत्याह — त्रायते पालयति एवं पिण्डं देहं प्राणः, क्षणितोः शस्त्रादिहिंसितात् पुनः मांसेन आपूरयति यस्मात् , तस्मात् क्षतत्राणात् प्रसिद्धं क्षत्त्रत्वं प्राणस्य । विद्वत्फलमाह — प्र क्षत्त्रमत्रम् , न त्रायते अन्येन केनचिदित्यत्रम् , क्षत्त्रं प्राणः, तम् अत्रं क्षत्त्रं प्राणं प्राप्नोतीत्यर्थः । शाखान्तरे वा पाठात् क्षत्त्रमात्रं प्राप्नोति, प्राणो भवतीत्यर्थः । क्षत्त्रस्य सायुज्यं सलोकतां जयति, य एवं वेद ॥

शाखान्तरशब्देन माध्यन्दिनशाखोच्यते ॥४॥