बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्दशं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावदेषु त्रिषु लोकेषु तावद्धजयति योऽस्या एतदेवं पदं वेद ॥ १ ॥
ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्य उपासनमुक्तम् ; अथ इदानीं गायत्र्युपाधिविशिष्टस्य उपासनं वक्तव्यमित्यारभ्यते । सर्वच्छन्दसां हि गायत्रीछन्दः प्रधानभूतम् ; तत्प्रयोक्तृगयत्राणात् गायत्रीति वक्ष्यति ; न च अन्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यम् ; प्राणात्मभूता च सा ; सर्वच्छन्दसां च आत्मा प्राणः ; प्राणश्च क्षतत्राणात् क्षत्त्रमित्युक्तम् ; प्राणश्च गायत्री ; तस्मात् तदुपासनमेव विधित्स्यते ; द्विजोत्तमजन्महेतुत्वाच्च — ‘गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यम्’ ( ? ) इति द्विजोत्तमस्य द्वितीयं जन्म गायत्रीनिमित्तम् ; तस्मात् प्रधाना गायत्री ; ‘ब्रह्मणा व्युत्थाय ब्राह्मणा अभिवदन्ति, स ब्राह्मणो विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति’ (बृ. उ. ३ । ५ । १), (बृ. उ. ३ । ८ । ८), (बृ. उ. ३ । ८ । १०), (बृ. उ. ४ । ४ । २३) इत्युत्तमपुरुषार्थसम्बन्धं ब्राह्मणस्य दर्शयति ; तच्च ब्राह्मणत्वं गायत्रीजन्ममूलम् ; अतो वक्तव्यं गायत्र्याः सतत्त्वम् । गायत्र्या हि यः सृष्टो द्विजोत्तमः निरङ्कुश एव उत्तमपुरुषार्थसाधने अधिक्रियते ; अतः तन्मूलः परमपुरुषार्थसम्बन्धः । तस्मात् तदुपासनविधानाय आह — भूमिरन्तरिक्षं द्यौरित्येतानि अष्टावक्षराणि ; अष्टाक्षरम् अष्ठावक्षराणि यस्य तत् इदमष्टाक्षरम् ; ह वै प्रसिद्धावद्योतकौ ; एकं प्रथमम् , गायत्र्यै गायत्र्याः, पदम् ; यकारेणैव अष्टत्वपूरणम् । एतत् उ ह एव एतदेव अस्या गायत्र्याः पदं पादः प्रथमः भूम्यादिलक्षणः त्रैलोक्यात्मा, अष्टाक्षरत्वसामान्यात् । एवम् एतत् त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेद, तस्यैतत्फलम् — स विद्वान् यावत्किञ्चित् एषु त्रिषु लोकेषु जेतव्यम् , तावत्सर्वं ह जयति, यः अस्यै एतदेवं पदं वेद ॥

वृत्तमनूद्य गायत्रीब्राह्मणस्य तात्पर्यमाह —

ब्रह्मण इत्यादिना ।

छन्दोन्तरेष्वपि विद्यमानेषु किमिति गायत्र्युपाधिकमेव ब्रह्मोपास्यमिष्यते तत्राऽऽह —

सर्वच्छन्दसामिति ।

तत्प्राधान्ये हेतुमाह —

तत्प्रयोक्त्रिति ।

तुल्यं प्रयोक्तृप्राणत्राणसामर्थ्यं छन्दोऽन्तराणामपीति चेन्नेत्याह —

न चेति ।

प्रमाणाभावादिति भावः ।

किञ्च प्राणात्मभावो गायत्र्या विवक्ष्यते प्राणश्च सर्वेषां छन्दसां निर्वर्तकत्वादात्मा तथा च सर्वच्छन्दोव्यापकगायत्र्युपाधिकब्रह्मोपासनमेवात्र विवक्षितमित्याह —

प्राणात्मेति ।

तदात्मभूता गायत्रीत्युक्तं व्यक्तीकरोति —

प्राणश्चेति ।

तत्प्रयोक्तृगयत्राणाद्धि गायत्री । प्राणश्च वागादीनां त्राता । ततश्चैकलक्षणत्वात्तयोस्तादात्म्यमित्यर्थः ।

प्राणगायत्र्योस्तादात्म्ये फलितमाह —

तस्मादिति ।

गायत्रीप्राधान्ये हेत्वन्तरमाह —

द्विजोत्तमेति ।

तदेव स्फुटयति —

गायत्र्येति ।

तत्प्राधान्ये हेत्वन्तरमाह —

ब्राह्मणा इति ।

कथमेतावता गायत्रीप्राधान्यं तत्राऽऽह —

तच्चेति ।

अतो वक्तव्यमित्यत्रातः शब्दार्थमाह —

गायत्र्या हीति ।

अधिकारित्वकृतं कार्यमाह —

अत इति ।

तच्छब्दो गायत्रीविषयः ।

गायत्रीवैशिष्ट्यं परामृश्य फलितमुपसंहरति —

तस्मादिति ।

गायत्रीप्रथमपादस्य सप्ताक्षरत्वं प्रतीयते न त्वष्टाक्षरत्वमित्याशङ्क्याऽऽह —

यकारेणेति ।

गायत्रीप्रथमपादस्य त्रैलोक्यनाम्नश्च संख्यासामान्यप्रयुक्तं कार्यमाह —

एतदिति ।

गायत्रीप्रथमपादे त्रैलोक्यदृष्ट्यारोपस्य प्रयोजनं दर्शयति —

एवमिति ।

प्रथमपादज्ञाने विराडात्मकत्वं फलतीत्यर्थः ॥१॥