बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्दशं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥
तथा ऋचः यजूंषि सामानीति त्रयीविद्यानामाक्षराणि एतान्यपि अष्टावेव ; तथैव अष्टाक्षरं ह वै एकं गायत्र्यै पदं द्वितीयम् , एतत् उ ह एव अस्या एतत् ऋग्यजुःसामलक्षणम् अष्टाक्षरत्वसामान्यादेव । सः यावती इयं त्रयी विद्या त्रय्या विद्यया यावत्फलजातम् आप्यते, तावत् ह जयति, योऽस्या एतत् गायत्र्याः त्रैविद्यलक्षणं पदं वेद ॥

प्रथमे पादे त्रैलोक्यदृष्टिवद्द्वितीये पादे कर्तव्या त्रैविद्यदृष्टिरित्याह —

तथेति ।

दृष्टिविध्युपयोगित्वेन संख्यासामान्यं कथयति —

ऋच इति ।

संख्यासामान्यफलमाह —

एतदिति ।

विद्याफलं दर्शयति —

स यावतीति ॥२॥