प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत्स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेदाथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एषतपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपत्येवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ३ ॥
तथा प्राणः अपानः व्यानः एतान्यपि प्राणाद्यभिधानाक्षराणि अष्टौ ; तच्च गायत्र्यास्तृतीयं पदम् ; यावदिदं प्राणिजातम् , तावत् ह जयति, योऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद । अथ अनन्तरं गायत्र्यास्त्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यते अभिधेयभूतम् , अस्याः प्रकृताया गायत्र्याः एतदेव वक्ष्यमाणं तुरीयं दर्शतं पदं परोरजा य एष तपति ; तुरीयमित्यादिवाक्यपदार्थं स्वयमेव व्याचष्टे श्रुतिः — यद्वै चतुर्थं प्रसिद्धं लोके, तदिह तुरीयशब्देनाभिधीयते ; दर्शतं पदमित्यस्य कोऽर्थ इत्युच्यते — ददृशे इव दृश्यते इव हि एषः मण्डलान्तर्गतः पुरुषः ; अतो दर्शतं पदमुच्यते ; परोरजा इत्यस्य पदस्य कोऽर्थ इत्युच्यते — सर्वं समस्तम् उ हि एव एषः मण्डलस्थः पुरुषः रजः रजोजातं समस्तं लोकमित्यर्थः, उपर्युपरि आधिपत्यभावेन सर्वं लोकं रजोजातं तपति ; उपर्युपरीति वीप्सा सर्वलोकाधिपत्यख्यापनार्था ; ननु सर्वशब्देनैव सिद्धत्वात् वीप्सा अनर्थिका — नैष दोषः ; येषाम् उपरिष्टात् सविता दृश्यते तद्विषय एव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा, ‘ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च’ (छा. उ. १ । ६ । ८) इति श्रुत्यन्तरात् ; तस्मात् सर्वावरोधार्था वीप्सा ; यथा असौ सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्या तपति, एवं हैव श्रिया यशसा च तपति, योऽस्या एतदेवं तुरीयं दर्शतं पदं वेद ॥