बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्दशं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादोगीय इत्येवंवेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम स यामेवामूं सावित्रीमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ४ ॥
सैषा त्रिपदा उक्ता या त्रैलोक्यत्रैविद्यप्राणलक्षणा गायत्री एतस्मिन् चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता, मूर्तामूर्तरसत्वात् आदित्यस्य ; रसापाये हि वस्तु नीरसम् अप्रतिष्ठितं भवति, यथा काष्ठादि दग्धसारम् , तद्वत् ; तथा मूर्तामूर्तात्मकं जगत् त्रिपदा गायत्री आदित्ये प्रतिष्ठिता तद्रसत्वात् सह त्रिभिः पादैः ; तद्वै तुरीयं पदं सत्ये प्रतिष्ठितम् ; किं पुनः तत् सत्यमित्युच्यते — चक्षुर्वै सत्यम् । कथं चक्षुः सत्यमित्याह — प्रसिद्धमेतत् , चक्षुर्हि वै सत्यम् । कथं प्रसिद्धतेत्याह — तस्मात् — यत् यदि इदानीमेव द्वौ विवदमानौ विरुद्धं वदमानौ एयाताम् आगच्छेयाताम् ; अहम् अदर्शं दृष्टवानस्मीति अन्य आह ; अहम् अश्रौषम् — त्वया दृष्टं न तथा तद्वस्त्विति ; तयोः य एवं ब्रूयात् — अहमद्राक्षमिति, तस्मै एव श्रद्दध्याम ; न पुनः यः ब्रूयात् अहमश्रौषमिति ; श्रोतुः मृषा श्रवणमपि सम्भवति ; न तु चक्षुषो मृषा दर्शनम् ; तस्मात् न अश्रौषमित्युक्तवते श्रद्दध्याम ; तस्मात् सत्यप्रतिपत्तिहेतुत्वात् सत्यं चक्षुः ; तस्मिन् सत्ये चक्षुषि सह त्रिभिः इतरैः पादैः तुरीयं पदं प्रतिष्ठितमित्यर्थः । उक्तं च ‘स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति’ (बृ. उ. ३ । ९ । २०) । तद्वै तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितम् ; किं पुनः तत् बलमित्याह — प्राणो वै बलम् ; तस्मिन्प्राणे बले प्रतिष्ठितं सत्यम् । तथा चोक्तम् — ‘सूत्रे तदोतं च प्रोतं च’ (बृ. उ. ३ । ७ । २) इति । यस्मात् बले सत्यं प्रतिष्ठितम् , तस्मादाहुः — बलं सत्यादोगीयः ओजीयः ओजस्तरमित्यर्थः ; लोकेऽपि यस्मिन्हि यदाश्रितं भवति, तस्मादाश्रितात् आश्रयस्य बलवत्तरत्वं प्रसिद्धम् ; न हि दुर्बलं बलवतः क्वचित् आश्रयभूतं दृष्टम् ; एवं उक्तन्यायेन उ एषा गायत्री अध्यात्मम् अध्यात्मे प्राणे प्रतिष्ठिता ; सैषा गायत्री प्राणः ; अतो गायत्र्यां जगत्प्रतिष्ठितम् ; यस्मिन्प्राणे सर्वे देवा एकं भवन्ति, सर्वे वेदाः, कर्माणि फलं च ; सैवं गायत्री प्राणरूपा सती जगत आत्मा । सा ह एषा गयान् तत्रे त्रातवती ; के पुनर्गयाः ? प्राणाः वागादयः वै गयाः, शब्दकरणात् ; तान् तत्रे सैषा गायत्री । तत् तत्र यत् यस्मात् गयान् तत्रे, तस्मात् गायत्री नाम ; गयत्राणात् गायत्रीति प्रथिता । सः आचार्यः उपनीयमाणवकमष्टवर्षं यामेव अमूं गायत्रीं सावित्रीं सवितृदेवताकाम् अन्वाह पच्छः अर्धर्चशः समस्तां च, एषैव स साक्षात् प्राणः जगत आत्मा माणवकाय समर्पिता इह इदानीं व्याख्याता, नान्या ; स आचार्यः यस्मै माणवकाय अन्वाह अनुवक्ति, तस्य माणवकस्य गयान् प्राणान् त्रायते नरकादिपतनात् ॥

अभिधानाभिधेयात्मिकां गायत्रीं व्याख्यायाभिधानस्याभिधेयतन्त्रत्वमाह —

सैषेति ।

आदित्ये प्रतिष्ठिता मूर्तामूर्तात्मिका गायत्रीत्यत्र हेतुमाह —

मूर्तेति ।

भवतु मूर्तामूर्तब्राह्मणानुसारेणाऽऽदित्यस्य तत्सारत्वं तथाऽपि कथं गायत्र्यास्तत्प्रतिष्ठितत्वं पृथगेव सा मूर्ताद्यात्मिका स्थास्यतीत्याशङ्क्याऽऽह —

रसेति ।

तद्वदादित्यसंबन्धाभावे मूर्ताद्यात्मिका गायत्री स्यादप्रतिष्ठितेति शेषः ।

सारादृते स्वातन्त्र्येण मूर्तादेर्न स्थितिरिति स्थिते फलितमाह —

तथेति ।

आदित्यस्य स्वातन्त्र्यं वारयति —

तद्वा इति ।

सत्यशब्दस्यानृतविपरीतवाग्विषयत्वं शङ्काद्वारा वारयति —

किं पुनरित्यादिना ।

चक्षुषः सत्यत्वे प्रमाणाभावं शङ्कित्वा दूषयति —

कथमित्यादिना ।

श्रोतरि श्रद्धाभावे हेतुमाह —

श्रोतुरिति ।

द्रष्टुरपि मृषादर्शनं संभवतीत्याशङ्क्याऽऽह —

न त्विति ।

क्वचित्कथञ्चित्संभवेऽपि श्रोत्रपेक्षया द्रष्टरि विश्वासो दृष्टो लोकस्येत्याह —

तस्मान्नेति ।

विश्वासातिशयफलमाह —

तस्मादिति ।

आदित्यस्य चक्षुषि प्रतिष्ठितत्वं पञ्चमेऽपि प्रतिपादितमित्याह —

उक्तं चेति ।

सत्यस्य स्वातन्त्र्यं प्रत्याह —

तद्वा इति ।

सत्यस्य प्राणप्रतिष्ठितत्वं च पाञ्चमिकमित्याह —

तथा चेति ।

सूत्रं प्राणो वायुः । तच्छब्देन सत्यशब्दितसर्वभूतग्रहणम् ।

सत्यं बले प्रतिष्ठितमित्यत्र लोकप्रसिद्धिं प्रमाणयति —

तस्मादिति ।

तदेवोपपादयति —

लोकेऽपीति ।

तदेव व्यतिरेकमुखेनाऽऽह —

न हीति ।

एतेन गायत्र्याः सूत्रात्मत्वं सिद्धमित्याह —

एवमिति ।

तस्मिन्नर्थे वाक्यं योजयति —

सैषेति ।

गायत्र्याः प्राणत्वे किं सिद्ध्यति तदाह —

अत इति ।

तदेव स्पष्टयति —

यस्मिन्नित्यादिना ।

गायत्रीनामनिर्वचनेन तस्या जगज्जीवनहेतुत्वमाह —

सा हैषेति ।

प्रयोक्तृशरीरं सप्तम्यर्थः । गायन्तीति गया वागुपलक्षिताश्चक्षुरादयः ।

ब्राह्मण्यमूलत्वेन स्तुत्यर्थं गायत्र्या एव सावित्रीत्वमाह —

स आचार्य इति ।

पच्छः पादशः ।

सावित्र्या गायत्रीत्वं साधयति —

स इति ।

अतः सावित्री गायत्रीति शेषः ॥४॥