तां हैतामेके सावित्रीमनुष्ठुभमन्वाहुर्वागनुष्टुबेतद्वाचमनुब्रूम इति न तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकञ्चन पदं प्रति ॥ ५ ॥
तामेतां सावित्रीं ह एके शाखिनः अनुष्टुभम् अनुष्टुप्प्रभवाम् अनुष्टुप्छन्दस्काम् अन्वाहुरुपनीताय । तदभिप्रायमाह — वाक् अनुष्टुप् , वाक्च शरीरे सरस्वती, तामेव हि वाचं सरस्वतीं माणवकायानुब्रूम इत्येतद्वदन्तः । न तथा कुर्यात् न तथा विद्यात् , यत् ते आहुः मृषैव तत् ; किं तर्हि गायत्रीमेव सावित्रीमनुब्रूयात् ; कस्मात् ? यस्मात् प्राणो गायत्रीत्युक्तम् ; प्राणे उक्ते, वाक्च सरस्वती च अन्ये च प्राणाः सर्वं माणवकाय समर्पितं भवति । किञ्चेदं प्रासङ्गिकमुक्त्वा गायत्रीविदं स्तौति — यदि ह वै अपि एवंवित् बह्विव — न हि तस्य सर्वात्मनो बहु नामास्ति किञ्चित् , सर्वात्मकत्वाद्विदुषः — प्रतिगृह्णाति, न हैव तत् प्रतिग्रहजातं गायत्र्या एकञ्चन एकमपि पदं प्रति पर्याप्तम् ॥