बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्दशं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स य इमांस्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६ ॥
स य इमांस्त्रीन् — स यः गायत्रीवित् इमान् भूरादीन् त्रीन् गोश्वादिधनपूर्णान् लोकान् प्रतिगृह्णीयात् , स प्रतिग्रहः, अस्या गायत्र्या एतत्प्रथमं पदं यद्व्याख्यातम् आप्नुयात् प्रथमपदविज्ञानफलम् , तेन भुक्तं स्यात् , न त्वधिकदोषोत्पादकः स प्रतिग्रहः । अथ पुनः यावती इयं त्रयी विद्या, यस्तावत् प्रतिगृह्णीयात् , सोऽस्या एतद्द्वितीयं पदमाप्नुयात् , द्वितीयपद विज्ञानफलं तेन भुक्तं स्यात् । तथा यावदिदं प्राणि, यस्तावत्प्रतिगृह्णीयात् , सोऽस्या एतत्तृतीयं पदमाप्नुयात् , तेन तृतीयपदविज्ञानफलं भुक्तं स्यात् । कल्पयित्वेदमुच्यते ; पादत्रयसममपि यदि कश्चित्प्रतिगृह्णीयात् , तत्पादत्रयविज्ञानफलस्यैव क्षयकारणम् , न त्वन्यस्य दोषस्य कर्तृत्वे क्षमम् ; न चैवं दाता प्रतिग्रहीता वा ; गायत्रीविज्ञानस्तुतये कल्प्यते ; दाता प्रतिग्रहीता च यद्यप्येवं सम्भाव्यते, नासौ प्रतिग्रहः अपराधक्षमः ; कस्मात् ? यतः अभ्यधिकमपि पुरुषार्थविज्ञानम् अवशिष्टमेव चतुर्थपादविषयं गायत्र्याः ; तद्दर्शयति — अथ अस्याः एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ; यद्यैतत् नैव केनचन केनचिदपि प्रतिग्रहेण आप्यं नैव प्राप्यमित्यर्थः, यथा पूर्वोक्तानि त्रीणि पदानि ; एतान्यपि नैव आप्यानि केनचित् ; कल्पयित्वा एवमुक्तम् ; परमार्थतः कुत उ एतावत् प्रतिगृह्णीयात् त्रैलोक्यादिसमम् । तस्मात् गायत्री एवंप्रकारा उपास्येत्यर्थः ॥

गायत्रीविदः प्रतिगृह्णतो दोषाभावं सामान्येनोक्त्वा विशेषस्तदभावमाह —

स य इति ।

यथा त्रैलोक्यावच्छिन्नस्य त्रैविद्यावच्छिन्नस्य चार्थस्य प्रतिग्रहेण पादद्वयविज्ञानफलमेव भुक्तं नाधिकं दूषणं तथेति यावत् ।

प्रतिग्रहीता दाता वा नैवंविधः संभाव्यते किन्तु स्तुत्यर्थं श्रुत्यैतत्कल्पितमित्याह —

कल्पयित्वेति ।

उक्तमेव संगृह्णाति —

पादत्रयेति ।

कल्पयित्वेदमुच्यत इति किमिति कल्प्यते मुख्यमेवैतत्किं न स्यादित्याशङ्क्याऽऽह —

न चेति ।

कल्पनाऽपि तर्हि किमर्थेत्याशङ्क्याऽऽह —

गायत्रीति ।

अङ्गीकृत्योत्तरवाक्यमुत्थापयति —

दातेति ।

तदेवाऽऽकाङ्क्षापूर्वकमाह —

कस्मादिति ।

वागात्मकपदत्रयविज्ञानफलभोगोक्त्यानन्तर्यमथशब्दार्थः । नैव प्राप्यं प्रतिग्रहेण केनचिदपि नैव मुक्तं स्यादित्यर्थः ।

तत्रैव वैधर्म्यदृष्टान्तमाह —

यथेति ।

तानि प्रतिग्रहेण यथाऽऽप्यानि न तथैतदाप्यमित्यर्थः ।

कुत इत्यादिवाक्यस्य तात्पर्यमाह —

एतान्यपीति ।

गायत्रीविदः स्तुतिरुक्ता तत्फलमाह —

तस्मादिति ।

एवम्प्रकारा पादचतुष्टयरूपा सर्वात्मिकेत्यर्थः ॥६॥