तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा ॥ ७ ॥
तस्या उपस्थानम् — तस्या गायत्र्याः उपस्थानम् उपेत्य स्थानं नमस्करणम् अनेन मन्त्रेण । कोऽसौ मन्त्र इत्याह — हे गायत्रि असि भवसि त्रैलोक्यपादेन एकपदी, त्रयीविद्यारूपेण द्वितीयेन द्विपदी, प्राणादिना तृतीयेन त्रिपद्यसि, चतुर्थेन तुरीयेण चतुष्पद्यसि ; एवं चतुर्भिः पादैः उपासकैः पद्यसे ज्ञायसे ; अतः परं परेण निरुपाधिकेन स्वेन आत्मना अपदसि — अविद्यमानं पदं यस्यास्तव, येन पद्यसे — सा त्वं अपत् असि, यस्मात् न हि पद्यसे, नेति नेत्यात्मत्वात् । अतो व्यवहारविषयाय नमस्ते तुरीयाय दर्शताय पदाय परोरजसे । असौ शत्रुः पाप्मा त्वत्प्राप्तिविघ्नकरः, अदः तत् आत्मनः कार्यं यत् त्वत्प्राप्तिविघ्नकर्तृत्वम् , मा प्रापत् मैव प्राप्नोतु ; इति - शब्दो मन्त्रपरिसमाप्त्यर्थः ; यं द्विष्यात् यं प्रति द्वेषं कुर्यात् स्वयं विद्वान् , तं प्रति अनेनोपस्थानम् ; असौ शत्रुः अमुकनामेति नाम गृह्णीयात् ; अस्मै यज्ञदत्ताय अभिप्रेतः कामः मा समृद्धि समृद्धिं मा प्राप्नोत्विति वा उपतिष्ठते ; न हैवास्मै देवदत्ताय स कामः समृध्यते ; कस्मै ? यस्मै एवमुपतिष्ठते । अहं अदः देवदत्ताभिप्रेतं प्रापमिति वा उपतिष्ठते । असावदो मा प्रापदित्यादित्रयाणां मन्त्रपदानां यथाकामं विकल्पः ॥