एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्तीभूतो वहसीति मुखं ह्यस्याः सम्राण्न विदाञ्चकारेति होवाच तस्या अग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥ ८ ॥
गायत्र्या मुखविधानाय अर्थवाद उच्यते — एतत् ह किल वै स्मर्यते, तत् तत्र गायत्रीविज्ञानविषये ; जनको वैदेहः, बुडिलो नामतः, अश्वतराश्वस्यापत्यम् आश्वतराश्विः, तं किल उक्तवान् ; यत् नु इति वितर्के, हो अहो इत्येतत् , तत् यत् त्वं गायत्रीविदब्रूथाः, गायत्रीविदस्मीति यदब्रूथाः, किमिदं तस्य वचसोऽननुरूपम् ; अथ कथम् , यदि गायत्रीवित् , प्रतिग्रहदोषेण हस्तीभूतो वहसीति । स प्रत्याह राज्ञा स्मारितः — मुखं गायत्र्याः हि यस्मात् अस्याः, हे सम्राट् , न विदाञ्चकार न विज्ञातवानस्मि — इति होवाच ; एकाङ्गविकलत्वात् गायत्रीविज्ञानं मम अफलं जातम् ।