बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःचतुर्दशं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्तीभूतो वहसीति मुखं ह्यस्याः सम्राण्न विदाञ्चकारेति होवाच तस्या अग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥ ८ ॥
शृणु तर्हि ; तस्या गायत्र्या अग्निरेव मुखम् ; यदि ह वै अपि बह्विवेन्धनम् अग्नावभ्यादधति लौकिकाः, सर्वमेव तत्सन्दहत्येवेन्धनम् अग्निः — एवं हैव एवंवित् गायत्र्या अग्निर्मुखमित्येवं वेत्तीत्येवंवित् स्यात् स्वयं गायत्र्यात्मा अग्निमुखः सन् । यद्यपि बह्विव पापं कुरुते प्रतिग्रहादिदोषम् , तत्सर्वं पापजातं सम्प्साय भक्षयित्वा शुद्धः अग्निवत् पूतश्च तस्मात्प्रतिग्रहदोषात् गायत्र्यात्मा अजरोऽमृतश्च सम्भवति ॥

राजा ब्रूते

श्रुण्विति ।

मुखविज्ञानस्य दृष्टान्तावष्टम्भेन फलमाचष्टे —

यदीत्यादिना ।

इवशब्दोऽवधारणार्थः । पापसंस्पर्शराहित्यं शुद्धिस्तत्फलासंस्पर्शस्तु पूततेति भेदः ।

गायत्रीज्ञानस्य क्रममुक्तिफलत्वं दर्शयति —

गायत्र्यात्मेति ॥८॥