बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःपञ्चदशं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये । पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् । समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि । योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदं भस्मान्तं शरीरम् । ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर । अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १ ॥
यो ज्ञानकर्मसमुच्चयकारी सः अन्तकाले आदित्यं प्रार्थयति ; अस्ति च प्रसङ्गः ; गायत्र्यास्तुरीयः पादो हि सः ; तदुपस्थानं प्रकृतम् ; अतः स एव प्रार्थ्यते । हिरण्मयेन ज्योतिर्मयेन पात्रेण, यथा पात्रेण इष्टं वस्तु अपिधीयते, एवमिदं सत्याख्यं ब्रह्म ज्योतिर्मयेन मण्डलेनापिहितमिव असमाहितचेतसामदृश्यत्वात् ; तदुच्यते — सत्यस्यापिहितं मुखं मुख्यं स्वरूपम् ; तत् अपिधानं पात्रमपिधानमिव दर्शनप्रतिबन्धकारणम् , तत् त्वम् , हे पूषन् , जगतः पोषणात्पूषा सविता, अपावृणु अपावृतं कुरु दर्शनप्रतिबन्धकारणमपनयेत्यर्थः ; सत्यधर्माय सत्यं धर्मोऽस्य मम सोऽहं सत्यधर्मा, तस्मै त्वदात्मभूतायेत्यर्थः ; दृष्टये दर्शनाय ; पूषन्नित्यादीनि नामानि आमन्त्रणार्थानि सवितुः ; एकर्षे, एकश्चासावृषिश्च एकर्षिः, दर्शनादृषिः ; स हि सर्वस्य जगत आत्मा चक्षुश्च सन् सर्वं पश्यति ; एको वा गच्छतीत्येकर्षिः, ‘सूर्य एकाकी चरति’ (तै. सं. ८ । ४ । १८) इति मन्त्रवर्णात् ; यम, सर्वं हि जगतः संयमनं त्वत्कृतम् ; सूर्य, सुष्ठु ईरयते रसान् रश्मीन् प्राणान् धियो वा जगत इति ; प्राजापत्य, प्रजापतेरीश्वरस्यापत्यं हिरण्यगर्भस्य वा, हे प्राजापत्य ; व्यूह विगमय रश्मीन् ; समूह सङ्क्षिप आत्मनस्तेजः, येनाहं शक्नुयां द्रष्टुम् ; तेजसा ह्यपहतदृष्टिः न शक्नुयां त्वत्स्वरूपमञ्जसा द्रष्टुम् , विद्योतन इव रूपाणाम् ; अत उपसंहर तेजः ; यत् ते तव रूपं सर्वकल्याणानामतिशयेन कल्याणं कल्याणतमम् ; तत् ते तव पश्यामि पश्यामो वयम् , वचनव्यत्ययेन । योऽसौ भूर्भुवःस्वर्व्याहृत्यवयवः पुरुषः, पुरुषाकृतित्वात्पुरुषः, सोऽहमस्मि भवामि ; ‘अहरहम्’ इति च उपनिषद उक्तत्वादादित्यचाक्षुषयोः तदेवेदं परामृश्यते ; सोऽहमस्म्यमृतमिति सम्बन्धः ; ममामृतस्य सत्यस्य शरीरपाते, शरीरस्थो यः प्राणो वायुः स अनिलं बाह्यं वायुमेव प्रतिगच्छतु ; तथा अन्या देवताः स्वां स्वां प्रकृतिं गच्छन्तु ; अथ इदमपि भस्मान्तं सत् पृथिवीं यातु शरीरम् । अथेदानीम् आत्मनः सङ्कल्पभूतां मनसि व्यवस्थिताम् अग्निदेवतां प्रार्थयते — ओं क्रतो ; ओमिति क्रतो इति च सम्बोधनार्थावेव ; ओङ्कारप्रतीकत्वात् ओं ; मनोमयत्वाच्च क्रतुः ; हे ओं, हे क्रतो, स्मर स्मर्तव्यम् ; अन्तकाले हि त्वत्स्मरणवशात् इष्टा गतिः प्राप्यते ; अतः प्रार्थ्यते — यत् मया कृतम् , तत् स्मर ; पुनरुक्तिः आदरार्था । किञ्च हे अग्ने, नय प्रापय, सुपथा शोभनेन मार्गेण, राये धनाय कर्मफलप्राप्तये इत्यर्थः ; न दक्षिणेन कृष्णेन पुनरावृत्तियुक्तेन, किं तर्हि शुक्लेनैव सुपथा ; अस्मान् विश्वानि सर्वाणि, हे देव, वयुनानि प्रज्ञानानि सर्वप्राणिनां विद्वान् ; किञ्च युयोधि अपनय वियोजय अस्मत् अस्मत्तः, जुहुराणं कुटिलम् , एनः पापं पापजातं सर्वम् ; तेन पापेन वियुक्ता वयम् एष्याम उत्तरेण पथा त्वत्प्रसादात् ; किं तु वयं तुभ्यम् परिचर्यां कर्तुं न शक्नुमः ; भूयिष्ठां बहुतमां ते तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारोक्त्या परिचरेमेत्यर्थः, अन्यत्कर्तुमशक्ताः सन्त इति ॥

ब्राह्मणान्तरस्य तात्पर्यमाह —

यो ज्ञानकर्मेति ।

आदित्यस्याप्रस्तुतत्वात्कथं तत्प्रार्थनेत्याशङ्क्याऽऽह —

अस्ति चेति ।

तथाऽपि कथमादित्यस्य प्रसंगस्तत्राऽऽह —

तदुपस्थानमिति ।

नमस्ते तुरीयायेति हि दर्शितमित्यर्थः ।

आदित्यस्य प्रसंगे सति फलितमाह —

अत इति ।

समाहितचेतसां प्रयततां दृश्यत्वान्नापिहितमेव किन्तु पिहितमिवेत्यत्र हेतुमाह —

असमाहितेति ।

जगतः पोषणाद्घर्महिमवृष्ट्यादिदानेनेति शेषः ।

अपावरणकरणमेव विवृणोति —

दर्शनेति ।

सत्यं परमार्थस्वरूपं ब्रह्म धर्मस्वभाव इति यावत् ।

ननु दर्शनार्थं तत्प्रतिबन्धकनिवृत्तौ पूषणि नियुक्ते किमित्यन्ये संबोध्य नियुज्यन्ते तत्राऽऽह —

पूषन्नित्यादीनीति ।

दर्शनादृषिरित्युक्तं विशदयति —

स हीति ।

’सूर्य आत्मा जगतस्तस्थुषश्च’ इति मन्त्रवर्णमाश्रित्योक्तम् —

जगत आत्मेति ।

’चक्षुर्मित्रस्य वरुणस्याग्नेः’ इत्येतदाश्रित्याऽऽह —

चक्षुश्चेति ।

स्वाभाविका रश्मयो न निगमयितुं शक्या इत्याशङ्क्याऽऽह —

समूहेति ।

मदीयतेजः संक्षेपं विनाऽपि ते मत्स्वरूपदर्शनं स्यादित्याशङ्क्याऽऽह —

तेजसा हीति ।

विद्योतनं विद्युत्प्रकाशस्तस्मिन्सति रूपाणां स्वरूपमञ्जसा चक्षुषा न शक्यं द्रष्टुं तस्य चक्षुर्मोषित्वात्तथेत्याह —

विद्योतन इवेति ।

तेजःसंक्षेपस्य प्रयोजनमाह —

यदिति ।

किञ्च नाहं त्वां भृत्यवद्याचेऽभेदेन ध्यातत्वादित्याह —

योऽसाविति ।

व्याहृतिशरीरे कथमहमिति प्रयोगोपपत्तिरित्याशङ्क्याऽऽह —

अहरिति ।

तदेवेदमित्यहंरूपमुच्यते ।

ननु तव शरीरपातेऽपि नामृतत्वमाध्यात्मिकवाय्वादिप्रतिबन्धादत आह —

ममेति ।

वायुग्रहणस्योपलक्षणत्वं विवक्षित्वाऽऽह —

तथेति ।

देहस्थदेवतानामप्रतिबन्धकत्वेऽपि देहस्यैव सूक्ष्मतां गतस्य प्रतिबन्धकत्वान्न तवामृतत्वमित्याशङ्क्याऽऽह —

अथेति ।

मन्त्रान्तरमवतार्य व्याकरोति —

अथेदानीमित्यादिना ।

अवतीत्योमीश्वरः सर्वस्य रक्षकस्तस्य जाठराग्निप्रतीकत्वेन ध्यातत्वादग्निशब्देन निर्देशः ।

एवमग्निदेवतां संबोध्य नियुङ्क्ते —

स्मरेति ।

इष्टां गतिं जिगमिषता किमिति स्मरणे देवता नियुज्यते तत्राऽऽह —

स्मरणेति ।

प्रार्थनान्तरं समुच्चिनोति —

किञ्चेति ।

उक्तमेव व्यनक्ति —

नेत्यादिना ।

अस्मान्नयेति पूर्वेण संबन्धः । प्रज्ञानग्रहणं कर्मादीनामुपलक्षणम् ।

प्रार्थनान्तरं दर्शयति —

किञ्चेति ।

पापवियोजनफलमाह —

तेनेति ।

भवद्भिराराधितो भवतां यथोक्तं फलं साधयिष्यामीत्याशङ्क्याऽऽह —

किं त्विति ।

बहुतमत्वं भक्तिश्रद्धातिरेकयुक्तत्वम् ।

यागादिनाऽपि परिचरणं क्रियतामित्याशङ्क्याऽऽह —

अन्यदिति ।

सन्ततनमस्कारोक्त्या परिचरेमेति पूर्वेण संबन्धः । अशक्तिश्च मुमूर्षावशादिति द्रष्टव्यम् । इतिशब्दोऽध्यायसमाप्त्यर्थः ॥१॥