ओङ्कारो दमादित्रयं ब्रह्माब्रह्मोपासनानि तत्फलं तदर्था गतिरादित्याद्युपस्थानमित्येषोऽर्थः सप्तमे निवृत्तः । संप्रति प्राधान्येनाब्रह्मोपासनं सफलं श्रीमन्थादिकर्म च वक्तव्यमित्यष्टममध्यायमारभमाणो ब्राह्मणसंगतिमाह —
प्राण इति ।
तस्मात्प्राणो गायत्रीति युक्तमुक्तमिति शेषः ।
प्राणस्य ज्येष्ठत्वादि नाद्यापि निर्धारितमिति शङ्कित्वा परिहरति —
कथमित्यादिना ।
प्रकारान्तरेण पूर्वोत्तरग्रन्थसंगतिमाह —
अथवेति ।
आदिशब्दादन्नवैशिष्ट्यादिनिर्देशः । तत्रेति प्राणस्यैव विशिष्टगुणकस्योपास्यत्वोक्तिः । हेतुर्ज्येष्ठत्वादिस्तन्मात्रमिहानन्तरग्रन्थे कथ्यत इति शेषः ।
तदेवं पूर्वग्रन्थस्य हेतुमत्त्वादुत्तरस्य च हेतुत्वादानन्तर्येण पौर्वापर्येण पूर्वग्रन्थेन सहोत्तरग्रन्थजातं संबध्यत इति फलितमाह —
आनन्तर्येणेति ।
वक्ष्यमाणप्राणोपासनस्य पूर्वोक्तोक्थाद्युपास्तिशेषत्वमाशङ्क्य गुणभेदात्फलभेदाच्च नैवमित्यभिप्रेत्याऽऽह —
न पुनरिति ।
किमिति प्राणोपासनमिह स्वतन्त्रमुपदिश्यते तत्राऽऽह —
खिलत्वादिति ।
इतिशब्दो ब्राह्मणारम्भोपसंहारार्थः ।
एवं ब्राह्मणारम्भं प्रतिपाद्याक्षराणि व्याचष्टे —
यः कश्चिदित्यादिना ।
यच्छब्दस्य पुनरुपादानमन्वयार्थम् ।
निपातयोरर्थमवधारणमेव प्रागुक्तं प्रकटयति —
भवत्येवेति ।
प्रश्नाय कोऽसौ ज्येष्ठश्च श्रेष्ठश्चेति प्रश्नस्तदर्थमिति यावत् ।
प्राणस्य ज्येष्ठत्वादिकमाक्षिपति —
कथमिति ।
तत्र हेतुमाह —
यस्मादिति ।
तस्माज्ज्येष्ठत्वादिकं तुल्यमेवेति शेषः ।
संबन्धाविशेषमङ्गीकृत्य ज्येष्ठत्वं प्राणस्य साधयति —
तथाऽपीति ।
उक्तमेव समर्थयते —
निषेककालादिति ।
तत्रापि विप्रतिपन्नं प्रत्याह —
प्राणे हीति ।
ज्येष्ठत्वेनैव श्रेष्ठत्वे सिद्धे किमिति पुनरुक्तिरित्याशङ्क्याऽऽह —
भवति त्विति ।
ज्येष्ठत्वे सत्यपि श्रेष्ठत्वाभावमुक्त्वा तस्मिन्सत्यपि ज्येष्ठत्वाभावमाह —
मध्यम इति ।
इहेति प्राणोक्तिः ।
प्राणश्रेष्ठत्वे प्रमाणाभावमाशङ्क्य प्रत्याह —
कथमित्यादिना ।
पूर्वोक्तमुपास्तिफलमुपसंहरति —
सर्वथाऽपीति ।
आरोपेणानारोपेण वेत्यर्थः ।
ज्येष्ठस्य विद्याफलत्त्वमाक्षिपति —
नन्विति ।
तस्य विद्याफलत्वं साधयति —
उच्यत इति ।
इच्छातो ज्यैष्ठ्यं दुःसाध्यमिति दोषस्यासत्त्वमाह —
नेति ।
तत्र हेतुमाह —
प्राणवदिति ।
यथा प्राणकृताशनादिप्रयुक्तश्चक्षुरादीनां वृत्तिलाभस्तथा प्राणोपासकाधीनं जीवनमन्येषां स्वानां च भवतीति प्राणदर्शिनो ज्येष्ठत्वं न वयोनिबन्धनमित्यर्थः ॥१॥