बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति वाग्वै वसिष्ठा वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति य एवं वेद ॥ २ ॥
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । तद्दर्शनानुरूप्येण फलम् । येषां च ज्ञातिव्यतिरेकेण वसिष्ठो भवितुमिच्छति, तेषां च वसिष्ठो भवति । उच्यतां तर्हि, कासौ वसिष्ठेति ; वाग्वै वसिष्ठा ; वासयत्यतिशयेन वस्ते वेति वसिष्ठा ; वाग्ग्मिनो हि धनवन्तो वसन्त्यतिशयेन ; आच्छादनार्थस्य वा वसेर्वसिष्ठा ; अभिभवन्ति हि वाचा वाग्ग्मिनः अन्यान् । तेन वसिष्ठगुणवत्परिज्ञानात् वसिष्ठगुणो भवतीति दर्शनानुरूपं फलम् ॥

वसिष्ठत्वमपि प्राणस्यैवेति वक्तुमुत्तरवाक्यमुत्थाप्य व्याचष्टे —

यो हेत्यादिना ।

फलेन प्रलोभितं शिष्यं प्रश्नाभिमुखं प्रत्याह —

उच्यतामित्यादिना ।

वाचो वसिष्ठत्वं द्विधा प्रतिजानीते —

वासयतीति ।

वासयत्यतिशयेनेत्युक्तं विशदयति —

वाग्ग्मिनो हीति ।

वासयन्ति चेति द्रष्टव्यम् ।

वस्ते वेत्युक्तं स्फुटयति —

आच्छादनार्थस्य वेति ।

आच्छादनार्थत्वमनुभवेन साधयति —

अभिभवन्तीति ।

उक्तमुपास्तिफलं निगमयति —

तेनेति ॥२॥