बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३ ॥
यो ह वै प्रतिष्ठां वेद, प्रतितिष्ठत्यनयेति प्रतिष्ठा, तां प्रतिष्ठां प्रतिष्ठागुणवतीं यो वेद, तस्य एतत्फलम् ; प्रतितिष्ठति समे देशे काले च ; तथा दुर्गे विषमे च दुर्गमने च देशे दुर्भिक्षादौ वा काले विषमे । यद्येवमुच्यताम् , कासौ प्रतिष्ठा ; चक्षुर्वै प्रतिष्ठा ; कथं चक्षुषः प्रतिष्ठात्वमित्याह — चक्षुषा हि समे च दुर्गे च दृष्ट्वा प्रतितिष्ठति । अतोऽनुरूपं फलम् , प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे, य एवं वेदेति ॥

गुणान्तरं वक्तुं वाक्यान्तरमादाय व्याचष्टे —

यो ह वा इति ।

समे प्रतिष्ठा विद्यां विनाऽपि स्यादित्याशङ्क्याऽऽह —

तथेति ।

विषमे च प्रतितिष्ठतीति संबन्धः ।

विषमशव्दस्यार्थमाह —

दुर्गमने चेति ।

इदानीं प्रश्नपूर्वकं प्रतिष्ठां दर्शयति —

यद्येवमिति ।

प्रतिष्ठात्वं चक्षुषो व्युत्पादयति —

कथमित्यादिना ।

विद्याफलं निगमयति —

अत इति ।३॥