बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यो ह वै सम्पदं वेद सं हास्मै पद्यते यं कामं कामयते श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः सं हास्मै पद्यते यं कामं कामयते य एवं वेद ॥ ४ ॥
यो ह वै सम्पदं वेद, सम्पद्गुणयुक्तं यो वेद, तस्य एतत्फलम् ; अस्मै विदुषे सम्पद्यते ह ; किम् ? यं कामं कामयते, स कामः । किं पुनः सम्पद्गुणकम् ? श्रोत्रं वै सम्पत् । कथं पुनः श्रोत्रस्य सम्पद्गुणत्वमित्युच्यते — श्रोत्रे सति हि यस्मात् सर्वे वेदा अभिसम्पन्नाः, श्रोत्रेन्द्रियवतोऽध्येयत्वात् ; वेदविहितकर्मायत्ताश्च कामाः ; तस्मात् श्रोत्रं सम्पत् । अतो विज्ञानानुरूपं फलम् , सं हास्मै पद्यते, यं कामं कामयते, य एवं वेद ॥

वाक्यान्तरमादाय विभजते —

यो ह वै संपदमिति ।

प्रश्नपूर्वकं संपदुत्पत्तिवाक्यमुपादत्ते —

किं पुनरिति ।

श्रोत्रस्य संपद्गुणत्वं व्युत्पादयति —

कथमिति ।

अध्येयत्वमध्ययनार्हत्वम् ।

तथाऽपि कथं श्रोत्रं संपद्गुणकमित्याशङ्क्याऽऽह —

वेदेति ।

पूर्वोक्तं फलमुपसंहरति —

अत इति ॥४॥