बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानां मनो वा आयतनमायतनं स्वानां भवत्यायतनं जनानां य एवं वेद ॥ ५ ॥
यो ह वा आयतनं वेद ; आयतनम् आश्रयः, तत् यो वेद, आयतनं स्वानां भवति, आयतनं जनानामन्येषामपि । किं पुनः तत् आयतनमित्युच्यते — मनो वै आयतनम् आश्रयः इन्द्रियाणां विषयाणां च ; मनआश्रिता हि विषया आत्मनो भोग्यत्वं प्रतिपद्यन्ते ; मनःसङ्कल्पवशानि च इन्द्रियाणि प्रवर्तन्ते निवर्तन्ते च ; अतो मन आयतनम् इन्द्रियाणाम् । अतो दर्शनानुरूप्येण फलम् , आयतनं स्वानां भवति, आयतनं जनानाम् , य एवं वेद ॥

वाक्यान्तरमादाय विभजते —

यो ह वा आयतनमिति ।

सामान्येनोक्तमायतनं प्रश्नपूर्वकं विशदयति —

किं पुनरिति ।

मनसो विषयाश्रयत्वं विशदयति —

मन इति ।

इन्द्रियाश्रयत्वं तस्य स्पष्टयति —

मनःसंकल्पेति ।

पूर्ववत्फलं निगमयति —

अत इति ॥५॥