बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६ ॥
यो ह वै प्रजातिं वेद, प्रजायते ह प्रजया पशुभिश्च सम्पन्नो भवति । रेतो वै प्रजातिः ; रेतसा प्रजननेन्द्रियमुपलक्ष्यते । तद्विज्ञानानुरूपं फलम् , प्रजायते ह प्रजया पशुभिः, य एवं वेद ॥

गुणान्तरं वक्तुं वाक्यान्तरं गृहीत्वा तदक्षराणि व्याकरोति —

यो हेत्यादिना ।

वागादीन्द्रियाणि तत्तद्गुणविशिष्टानि शिष्ट्वा रेतो विशिष्टगुणमाचक्षाणस्य प्रकरणविरोधः स्यादित्याशङ्क्याऽऽह —

रेतसेति ।

विद्याफलमुपसंहरति —

तद्विज्ञानेति ॥६॥