ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुस्तद्धोचुः को नो वसिष्ठ इति तद्धोवाच यस्मिन्व उत्क्रान्त इदं शरीरं पापीयो मन्यते स वो वसिष्ठ इति ॥ ७ ॥
ते हेमे प्राणा वागादयः, अहंश्रेयसे अहं श्रेयानित्येतस्मै प्रयोजनाय, विवदमानाः विरुद्धं वदमानाः, ब्रह्म जग्मुः ब्रह्म गतवन्तः, ब्रह्मशब्दवाच्यं प्रजापतिम् ; गत्वा च तद्ब्रह्म ह ऊचुः उक्तवन्तः — कः नः अस्माकं मध्ये, वसिष्ठः, कोऽस्माकं मध्ये वसति च वासयति च । तद्ब्रह्म तैः पृष्टं सत् ह उवाच उक्तवत् — यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते निर्गते शरीरात् , इदं शरीरं पूर्वस्मादतिशयेन पापीयः पापतरं मन्यते लोकः ; शरीरं हि नाम अनेकाशुचिसङ्घातत्वात् जीवतोऽपि पापमेव, ततोऽपि कष्टतरं यस्मिन् उत्क्रान्ते भवति ; वैराग्यार्थमिदमुच्यते — पापीय इति ; स वः युष्माकं मध्ये वसिष्ठो भविष्यति । जानन्नपि वसिष्ठं प्रजापतिः नोवाच अयं वसिष्ठ इति इतरेषाम् अप्रियपरिहाराय ॥