बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
वाग्घोच्चक्राम सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ते होचुर्यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति प्रविवेश ह वाक् ॥ ८ ॥
ते एवमुक्ता ब्रह्मणा प्राणाः आत्मनो वीर्यपरीक्षणाय क्रमेण उच्चक्रमुः । तत्र वागेव प्रथमं ह अस्मात् शरीरात् उच्चक्राम उत्क्रान्तवती ; सा चोत्क्रम्य, संवत्सरं प्रोष्य प्रोषिता भूत्वा, पुनरागत्योवाच — कथम् अशकत शक्तवन्तः यूयम् , मदृते मां विना, जीवितुमिति । ते एवमुक्ताः ऊचुः — यथा लोके अकलाः मूकाः, अवदन्तः वाचा, प्राणन्तः प्राणनव्यापारं कुर्वन्तः प्राणेन, पश्यन्तः दर्शनव्यापारं चक्षुषा कुर्वन्तः, तथा शृण्वन्तः श्रोत्रेण, विद्वांसः मनसा कार्याकार्यादिविषयम् , प्रजायमानाः रेतसा पुत्रान् उत्पादयन्तः, एवमजीविष्म वयम् — इत्येवं प्राणैः दत्तोत्तरा वाक् आत्मनः अस्मिन् अवसिष्ठत्वं बुद्ध्वा, प्रविवेश ह वाक् ॥

वाग्घोच्चक्रामेत्यादेस्तात्पर्यमाह —

त एवमिति ।

उक्तेऽर्थे श्रुत्यक्षराणि व्याचष्टे —

तत्रेत्यादिना ।

कार्याकार्यादिविषयमित्यादिशब्देनोपेक्षणीयसंग्रहः ।

चक्षुरादिभिर्दत्तोत्तरा पुनर्वाक्किमकरोदिति तत्राऽऽह —

आत्मन इति ॥८–१२॥

वागादिप्रकरणविच्छेदार्थोऽथशब्दः । उत्क्रमणं करिष्यन्यदा भवतीति शेषः ।