बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ ह प्राण उत्क्रमिष्यन्यथा महासुहयः सैन्धवः पड्वीशशङ्कून्संवृहेदेवं हैवेमान्प्राणान्संववर्ह ते होचुर्मा भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति तस्यो मे बलिं कुरुतेति तथेति ॥ १३ ॥
अथ ह प्राण उत्क्रमिष्यन् उत्क्रमणं करिष्यन् ; तदानीमेव स्वस्थानात्प्रचलिता वागादयः । किमिवेत्याह — यथा लोके, महांश्चासौ सुहयश्च महासुहयः, शोभनो हयः लक्षणोपेतः, महान् परिमाणतः, सिन्धुदेशे भवः सैन्धवः अभिजनतः, पड्वीशशङ्कून् पादबन्धनशङ्कून् , पड्वीशाश्च ते शङ्कवश्च तान् , संवृहेत् उद्यच्छेत् युगपदुत्खनेत् अश्वारोहे आरूढे परीक्षणाय ; एवं ह एव इमान् वागादीन् प्राणान् संववर्ह उद्यतवान् स्वस्थानात् भ्रंशितवान् । ते वागादयः ह ऊचुः — हे भगवः भगवन् मा उत्क्रमीः ; यस्मात् न वै शक्ष्यामः त्वदृते त्वां विना जीवितुमिति । यद्येवं मम श्रेष्ठता विज्ञाता भवद्भिः, अहमत्र श्रेष्ठः, तस्य उ मे मम बलिं करं कुरुत करं प्रयच्छतेति । अयं च प्राणसंवादः कल्पितः विदुषः श्रेष्ठपरीक्षणप्रकारोपदेशः ; अनेन हि प्रकारेण विद्वान् को नु खलु अत्र श्रेष्ठ इति परीक्षणं करोति ; स एष परीक्षणप्रकारः संवादभूतः कथ्यते ; न हि अन्यथा संहत्यकारिणां सताम् एषाम् अञ्जसैव संवत्सरमात्रमेव एकैकस्य निर्गमनादि उपपद्यते ; तस्मात् विद्वानेव अनेन प्रकारेण विचारयति वागादीनां प्रधानबुभुत्सुः उपासनाय ; बलिं प्रार्थिताः सन्तः प्राणाः, तथेति प्रतिज्ञातवन्तः ॥

उक्तमर्थं दृष्टान्तेन स्पष्टयन्नुत्तरवाक्यमवतारयति —

किमिवेत्यादिना ।

प्राणस्य श्रेष्ठत्वं वागादिभिर्निर्धारितमित्याह —

ते वागादय इति ।

तर्हि तत्फलेन भवितव्यमित्याह —

यद्येवमिति ।

यथोक्तस्य प्राणसंवादस्य काल्पनिकत्वं दर्शयति —

अयं चेति ।

कल्पनाफलं सूचयति —

विदुष इति ।

तदेव स्पष्टयति अनेन हीति ।

उपास्यपरीक्षणप्रकारो विवक्षितश्चेत्किं संवादेनेत्याशङ्क्याऽऽह —

स एष इति ।

संवादस्य मुख्यार्थत्वादकल्पितत्वमाशङ्क्याऽऽह —

न हीति ।

संवादस्य कल्पितत्वे फलितमाह —

तस्मादिति ।

एवं प्राणसंवादस्य तात्पर्यमुक्त्वा प्रकृतामक्षरव्याख्यामेवानुवर्तयति —

बलिमिति ॥१३॥