बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा अहं सम्पदस्मि त्वं तत्सम्पदसीति श्रोत्रं यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो वास इति न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥
सा ह वाक् प्रथमं बलिदानाय प्रवृत्ता ह किल उवाच उक्तवती — यत् वै अहं वसिष्ठास्मि, यत् मम वसिष्ठत्वम् , तत् तवैव ; तेन वसिष्ठगुणेन त्वं तद्वसिष्ठोऽसीति । यत् वै अहं प्रतिष्ठास्मि, त्वं तत्प्रतिष्ठोऽसि, या मम प्रतिष्ठा सा त्वमसीति चक्षुः । समानम् अन्यत् । सम्पदायतनप्रजातित्वगुणान् क्रमेण समर्पितवन्तः । यद्येवम् , साधु बलिं दत्तवन्तो भवन्तः ; ब्रूत — तस्य उ मे एवंगुणविशिष्टस्य किमन्नम् , किं वास इति ; आहुरितरे — यदिदं लोके किञ्च किञ्चित् अन्नं नाम आ श्वभ्यः आ कृमिभ्यः आ कीटपतङ्गेभ्यः, यच्च श्वान्नं कृम्यन्नं कीटपतङ्गान्नं च, तेन सह सर्वमेव यत्किञ्चित् प्राणिभिरद्यमानम् अन्नम् , तत्सर्वं तवान्नम् । सर्वं प्राणस्यान्नमिति दृष्टिः अत्र विधीयते ॥

सा ह वागिति प्रतीकमादाय व्याचष्टे —

प्रथममिति ।

तेन वसिष्ठगुणेन त्वमेव वसिष्ठोऽसि तथा च तद्वसिष्ठत्वं तवैवेति योजना ।

बलिदानमङ्गीकृत्यान्नवाससी पृच्छसि —

यद्येवमित्यादिना ।

एवङ्गुणविशिष्टस्य ज्येष्ठत्वश्रेष्ठत्ववसिष्ठत्वादिसंबद्धस्येत्यर्थः ।

यदिदमित्यादि वाक्यं व्याचष्टे —

यदिदमिति ।

प्रकृतेन शुनामन्नेन कीटादीनां चान्नेन सहयत्किञ्चित्कृम्यन्नं दृश्यते तत्सर्वमेव तवान्नमिति योजना ।

तदेव स्फुटयति —

यत्किञ्चिदिति ।