बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा अहं सम्पदस्मि त्वं तत्सम्पदसीति श्रोत्रं यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति यदिदं किञ्चाश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो वास इति न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥
केचित्तु सर्वभक्षणे दोषाभावं वदन्ति प्राणान्नविदः ; तत् असत् , शास्त्रान्तरेण प्रतिषिद्धत्वात् । तेनास्य विकल्प इति चेत् , न, अविधायकत्वात् । न ह वा अस्यानन्नं जग्धं भवतीति — सर्वं प्राणस्यान्नमित्येतस्य विज्ञानस्य विहितस्य स्तुत्यर्थमेतत् ; तेनैकवाक्यतापत्तेः ; न तु शास्त्रान्तरविहितस्य बाधने सामर्थ्यम् , अन्यपरत्वादस्य । प्राणमात्रस्य सर्वमन्नम् इत्येतदृर्शनम् इह विधित्सितम् , न तु सर्वं भक्षयेदिति । यत्तु सर्वभक्षणे दोषाभावज्ञानम् , तत् मिथ्यैव, प्रमाणाभावात् । विदुषः प्राणत्वात् सर्वान्नोपपत्तेः सामर्थ्यात् अदोष एवेति चेत् , न, अशेषान्नत्वानुपपत्तेः ; सत्यं यद्यपि विद्वान् प्राणः, येन कार्यकरणसङ्घातेन विशिष्टस्य विद्वत्ता तेन कार्यकरणसङ्घातेन कृमिकीटदेवाद्यशेषान्नभक्षणं नोपपद्यते ; तेन तत्र अशेषान्नभक्षणे दोषाभावज्ञापनमनर्थकम् , अप्राप्तत्वादशेषान्नभक्षणदोषस्य । ननु प्राणः सन् भक्षयत्येव कृमिकीटाद्यन्नमपि ; बाढम् , किन्तु न तद्विषयः प्रतिषेधोऽस्ति ; तस्मात् — दैवरक्तं किंशुकम् — तत्र दोषाभावः ; अतः तद्रूपेण दोषाभावज्ञापनमनर्थकम् , अप्राप्तत्वात् अशेषान्नभक्षणदोषस्य । येन तु कार्यकरणसङ्घातसम्बन्धेन प्रतिषेधः क्रियते, तत्सम्बन्धेन तु इह नैव प्रतिप्रसवोऽस्ति । तस्मात् तत्प्रतिषेधातिक्रमे दोष एव स्यात् , अन्यविषयत्वात् ‘न ह वै’ इत्यादेः । न च ब्राह्मणादिशरीरस्य सर्वान्नत्वदर्शनमिह विधीयते, किन्तु प्राणमात्रस्यैव । यथा च सामान्येन सर्वान्नस्य प्राणस्य किञ्चित् अन्नजातं कस्यचित् जीवनहेतुः, यथा विषं विषजस्य क्रिमेः, तदेव अन्यस्य प्राणान्नमपि सत् दृष्टमेव दोषमुत्पादयति मरणादिलक्षणम् — तथा सर्वान्नस्यापि प्राणस्य प्रतिषिद्धान्नभक्षणे ब्राह्मणत्वादिदेहसम्बन्धात् दोष एव स्यात् । तस्मात् मिथ्याज्ञानमेव अभक्ष्यभक्षणे दोषाभावज्ञानम् ॥

सर्वमिति ; केचित्त्विति ; तदसदिति ; तेनेति ; नाविधायकत्वादिति ; न ह वा इति ; तेनेति ; न त्विति ; प्राणमात्रस्येति ; यत्त्विति ; विदुष इति ; नेत्यादिना ; सत्यमिति ; नन्विति ; बाढमिति ; तस्मादिति ; अत इति ; अप्राप्तत्वादिति ; येन त्विति ; तस्मादिति ; अन्यविषयत्वादिति ; न चेति ; यथा चेति ; यथेति ; तथेति ; तस्मादिति ; आप इति ; अत्र चेति ; तस्मादिति ; नेत्यादिना ; यद्यपीति ; इत्येतदिति ; तत्रापीति ; फलं त्विति ; नन्वित्यादिना ; अत इति ; यस्मादिति ; अस्ति चेति ; प्राणस्येति ; यदप इति ; नन्विति ; तत्रेति ; न चेति ; यदीति ; यस्मादिति ; नेत्यादिना ; क्रियामात्रमेवेति ; नत्विति ; प्राणस्येति ; न त्विति ; तस्मादिति ;

पदार्थमुक्त्वा वाक्यार्थं कथयति —

सर्वमिति ।

अस्मिन्नेव वाक्ये पक्षान्तरमुत्थापयति —

केचित्त्विति ।

न ह वा अस्येत्याद्यर्थवाददर्शनादित्यर्थः ।

तद्दूषयति —

तदसदिति ।

शास्त्रान्तरेण ‘क्रिमयो भवन्त्यभक्ष्यभक्षिण’ इत्यादिनेत्यर्थः ।

प्राणविदतिरिक्तविषयं शास्त्रान्तरं सर्वभक्षणं तु प्राणदर्शिनो विवक्षितमतो व्यवस्थितविषयत्वात्प्रतिषेधेन सर्वभक्षणस्योदितानुदितहोमवद्विकल्पः स्यादिति शङ्कते —

तेनेति ।

किं तर्हि सर्वान्नभक्षणं विहितं न वा ? न चेन्न तस्य निषिद्धस्यानुष्ठानं प्राणविदि तत्प्रापकाभावाद्विहितं चेत्तत्किं यदिदमित्यादिना न हेत्यादिना वा विहितं नाऽऽद्य इत्याह —

नाविधायकत्वादिति ।

यदिदमित्यादिना हि सर्वं प्राणस्यान्नमिति ज्ञानमेव विधीयते न तु प्राणा[न्न]विदः सर्वान्नभक्षणं तदवद्योतिपदाभावान्न विकल्पोपपत्तिरित्यर्थः ।

द्वितीयं दूषयति —

न ह वा इति ।

अस्येति विद्वत्परामर्शान्निपातयोरर्थवादत्वावद्योतिनोर्दर्शनादेकवाक्यत्वसंभवे वाक्यभेदस्यान्याय्यत्वाच्चेति हेतुमाह —

तेनेति ।

अर्थवादस्यापि स्वार्थे प्रामाण्यं देवताधिकरणन्यायेन भविष्यतीत्याशङ्क्य ‘न कलञ्जं भक्षयेदि’त्यादिविहितस्य भक्षणाभावस्य तस्य बाधेन न हेत्यादेर्न सामर्थ्यं दृष्टिपरत्वादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगादित्याह —

न त्विति ।

न हेत्यादेरन्यपरत्वं प्रपञ्चयति —

प्राणमात्रस्येति ।

तत्र दोषाभावज्ञापनात्तदेव विधित्सितमित्याशङ्क्याऽऽह —

यत्त्विति ।

अर्थवादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगस्योक्तत्वादिति भावः ।

प्रमाणाभावस्यासिद्धिमाशङ्कते —

विदुष इति ।

सामर्थ्यात्प्राणस्वरूपबलादिति यावत् । अदोषः सर्वान्नभक्षणे तस्येति शेषः ।

अर्थापत्तिं दूषयति —

नेत्यादिना ।

अनुपपत्तिमेव विवृणोति —

सत्यमिति ।

येनेत्यस्मात्प्राक्तथाऽपीति वक्तव्यम् । यद्यपीत्युपक्रमात् ।

प्राणस्वरूपसामर्थ्यादनुपपत्तिरपि शाम्यतीति शङ्कते —

नन्विति ।

किं फलात्मना विदुषः सर्वान्नभक्षणं साध्यते किंवा साधकत्वरूपेणेति विकल्प्याऽऽद्यमङ्गीकरोति —

बाढमिति ।

प्राणरूपेण सर्वभक्षणं तच्छब्दार्थः ।

तत्र प्रतिषेधाभावे सदृष्टान्तं फलितमाह —

तस्मादिति ।

तथा स्वारसिकं प्राणस्य सर्वभक्षणं तत्र चाप्रतिषेधाद्दोषराहित्यमिति शेषः ।

तद्राहित्ये किं स्यादिति चेत्तदाह —

अत इति ।

पञ्चम्यर्थमेव स्फोरयति —

अप्राप्तत्वादिति ।

प्राणविदः साधकत्वाकारेण साध्यते सर्वान्नभक्षणमिति पक्षं प्रत्याह —

येन त्विति ।

इहेति प्राणविदुच्यते । निमित्तान्तरादत्यन्ताप्राप्तविषयो विधिः प्रतिप्रसवो यथा ज्वरितस्याशनप्रतिषेधेऽप्यौषधं पिबेदिति तथा शास्त्राधिकारिणः सर्वाभक्ष्यभक्षणनिषेधेऽपि प्राणविदो विशेषविधिर्नोपलभ्यते । तथा च तस्य भक्षणं दुःसाध्यमित्यर्थः ।

प्रतिप्रसवाभावे लब्धं दर्शयति —

तस्मादिति ।

अर्थवादस्य तर्हि का गतिरित्याशङ्क्याऽऽह —

अन्यविषयत्वादिति ।

तस्य स्तुतिमात्रार्थत्वान्न तद्वशान्निषेधातिक्रम इत्यर्थः ।

ननु विशिष्टस्य प्राणस्य सर्वान्नत्वदर्शनमत्र विधीयते तथा च विदुषोऽपि तदात्मनः सर्वान्नभक्षणे न दोषो यथादर्शनं फलाभ्युपगमादत आह —

न चेति ।

इतोऽपि सर्वं प्राणस्यान्नमित्येतदवष्टम्भेन प्राणविदः सर्वभक्षणं न विधेयमित्याह —

यथा चेति ।

प्राणस्य यथोक्तस्य स्वीकारेऽपि कस्यचित्किञ्चिदन्नं जीवनहेतुरित्यत्र दृष्टान्तमाह —

यथेति ।

तथा सर्वप्राणिषु व्यवस्थयाऽन्नसंबन्धे दार्ष्टान्तिकमाह —

तथेति ।

प्राणविदोऽपि कार्यकरणवतो निषेधातिक्रमायोगे फलितमाह —

तस्मादिति ।

वाक्यान्तरमादाय व्याकरोति —

आप इति ।

स्मार्तादाचमनादन्यदेव श्रौतमाचमनमन्यतोऽप्राप्तं विधेयं तदर्थमिदं वाक्यमिति केचित्तान्प्रत्याह —

अत्र चेति ।

वासःकार्यं परिधानम् ।

तत्र साक्षादपां विनियोगायोगे प्राप्तमर्थमाह —

तस्मादिति ।

यदिदं किञ्चेत्यादावुक्तं दृष्टिविधेरर्थवादमादाय व्याचष्टे —

नेत्यादिना ।

पुनर्नञनुकर्षणमन्वयाय ।

पदार्थमुक्त्वा वाक्यार्थमाह —

यद्यपीति ।

अभक्ष्यभक्षणं तर्हि स्वीकृतमिति चेन्नेत्याह —

इत्येतदिति ।

यथा प्राणविदो नानन्नं भुक्तं भवति तथेत्येतत् ।

अनुमतस्तर्हि प्राणविदो दुष्प्रतिग्रहोऽपीत्याशङ्क्याऽऽह —

तत्रापीति ।

असत्प्रतिग्रहे प्राप्तेऽपीत्यर्थः ।

किमित्ययं स्तुत्यर्थवादः फलवाद एव किं न स्यादित्याशङ्क्याऽऽह —

फलं त्विति ।

इतिशब्दः सर्वं प्राणस्यान्नमिति दृष्टिविधेः सार्थवादस्योपसंहारार्थः ।

उक्तमेवार्थं चोद्यसमाधिभ्यां समर्थयते —

नन्वित्यादिना ।

यथाप्राप्तं प्रकृतवाक्यवशात्प्रतिपन्नं रूपमनतिक्रम्येति यावत् ।

वाक्यस्य विद्यास्तुतित्वे फलितमाह —

अत इति ।

यदुक्तमापो वास इति तस्य शेषभूतमुत्तरग्रन्थमुत्थाप्य व्याचष्टे —

यस्मादिति ।

तत्रेत्यशनात्प्रागूर्ध्वकालोक्तिः ।

उक्तेऽभिप्राये लोकप्रसिद्धिमनुकूलयति —

अस्ति चेति ।

तत्रैव वाक्योपक्रमस्याऽऽनुकूल्यं दर्शयति —

प्राणस्येति ।

किमर्थमिदं सोपक्रमं वाक्यमित्यपेक्षायामत्र चेत्यादावुक्तं स्मारयति —

यदप इति ।

दृष्टिविधानमसहमानः शङ्कते —

नन्विति ।

अस्तु प्रायत्यार्थमाचमनं प्राणपरिधानार्थं चेत्याशङ्क्याऽऽह —

तत्रेति ।

कुल्याप्रणयनन्यायेन द्विकार्यत्वाविरोधमाशङ्क्याऽऽह —

न चेति ।

तत्र प्रत्यक्षत्वात्कार्यभेदस्याविरोधेऽपि प्रकृते प्रमाणाभावाद्द्विकार्यत्वानुपपत्तिरित्यभिप्रेत्योक्तमुपपादयति —

यदीति ।

ननु स्मार्ताचमनस्य प्रायत्यार्थत्वं तथैवानग्नतार्थत्वं प्रकृतवाक्याधिगतं तथा च कथं द्विकार्यत्वमप्रामाणिकमित्याशङ्क्य वाक्यस्य विषयान्तरं दर्शयति —

यस्मादिति ।

द्विकार्यत्वदोषमुक्तं दूषयति —

नेत्यादिना ।

तच्चाऽऽचमनं दर्शननिरपेक्षमित्याह —

क्रियामात्रमेवेति ।

नन्वाचमने फलभूतं प्रायत्यं दर्शनसापेक्षमिति चेन्नेत्याह —

नत्विति ।

क्रियाया एव तदाधानसामर्थ्यादित्यर्थः । तत्रेत्याचमने शुद्ध्यर्थे क्रियान्तरे सतीत्यर्थः ।

प्राणविज्ञानप्रकरणे वासोविज्ञानं चोद्यते चेद्वाक्यभेदः स्यादित्याशङ्क्याऽऽह —

प्राणस्येति ।

सर्वान्नविज्ञानवदिति चकारार्थः ।

आचमनीयास्वप्सु वासोविज्ञानं क्रियते चेत्कथमाचमनस्य प्रायत्यार्थत्वमित्याशङ्क्याऽऽह —

न त्विति ।

द्विकार्यत्वदोषाभावे फलितं दर्शनविधिमुपसंहरति —

तस्मादिति ।

अप्राप्तत्वाद्वासोदृष्टेर्विधिव्यतिरेकेण प्राप्त्यभावाद्दृष्टेश्चात्र प्रकृतत्वात्कार्याख्यानादपूर्वमिति च न्यायादित्यर्थः ॥१४॥