बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
श्वेतकेतुर्ह वा आरुणेय इत्यस्य सम्बन्धः । खिलाधिकारोऽयम् ; तत्र यदनुक्तं तदुच्यते । सप्तमाध्यायान्ते ज्ञानकर्मसमुच्चयकारिणा अग्नेर्मार्गयाचनं कृतम् — अग्ने नय सुपथेति । तत्र अनेकेषां पथां सद्भावः मन्त्रेण सामर्थ्यात्प्रदर्शितः, सुपथेति विशेषणात् । पन्थानश्च कृतविपाकप्रतिपत्तिमार्गाः ; वक्ष्यति च ‘यत्कृत्वा’ (बृ. उ. ६ । २ । २) इत्यादि । तत्र च कति कर्मविपाकप्रतिपत्तिमार्गा इति सर्वसंसारगत्युपसंहारार्थोऽयमारम्भः — एतावती हि संसारगतिः, एतावान् कर्मणो विपाकः स्वाभाविकस्य शास्त्रीयस्य च सविज्ञानस्येति । यद्यपि ‘द्वया ह प्राजापत्याः’ (बृ. उ. १ । ३ । १) इत्यत्र स्वाभाविकः पाप्मा सूचितः, न च तस्येदं कार्यमिति विपाकः प्रदर्शितः ; शास्त्रीयस्यैव तु विपाकः प्रदर्शितः त्र्यन्नात्मप्रतिपत्त्यन्तेन, ब्रह्मविद्यारम्भे तद्वैराग्यस्य विवक्षितत्वात् । तत्रापि केवलेन कर्मणा पितृलोकः, विद्यया विद्यासंयुक्तेन च कर्मणा देवलोक इत्युक्तम् । तत्र केन मार्गेण पितृलोकं प्रतिपद्यते, केन वा देवलोकमिति नोक्तम् । तच्च इह खिलप्रकरणे अशेषतो वक्तव्यमित्यत आरभ्यते । अन्ते च सर्वोपसंहारः शास्त्रस्येष्टः । अपि च एतावदमृतत्वमित्युक्तम् , न कर्मणः अमृतत्वाशा अस्तीति च ; तत्र हेतुः नोक्तः ; तदर्थश्चायमारम्भः । यस्मात् इयं कर्मणो गतिः, न नित्येऽमृतत्वे व्यापारोऽस्ति, तस्मात् एतावदेवामृतत्वसाधनमिति सामर्थ्यात् हेतुत्वं सम्पद्यते । अपि च उक्तमग्निहोत्रे — न त्वेवैतयोस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थेति ; तत्र प्रतिवचने ‘ते वा एते आहुती हुते उत्क्रामतः’ (शत. ब्रा. ११ । ६ । २ । ४) इत्यादिना आहुतेः कार्यमुक्तम् ; तच्चैतत् कर्तुः आहुतिलक्षणस्य कर्मणः फलम् ; न हि कर्तारमनाश्रित्य आहुतिलक्षणस्य कर्मणः स्वातन्त्र्येण उत्क्रान्त्यादिकार्यारम्भ उपपद्यते, कर्त्रर्थत्वात्कर्मणः कार्यारम्भस्य, साधनाश्रयत्वाच्च कर्मणः ; तत्र अग्निहोत्रस्तुत्यर्थत्वात् अग्निहोत्रस्यैव कार्यमित्युक्तं षट्प्रकारमपि ; इह तु तदेव कर्तुः फलमित्युपदिश्यते षट्प्रकारमपि, कर्मफलविज्ञानस्य विवक्षितत्वात् । तद्द्वारेण च पञ्चाग्निदर्शनम् इह उत्तरमार्गप्रतिपत्तिसाधानं विधित्सितम् । एवम् , अशेषसंसारगत्युपसंहारः, कर्मकाण्डस्य एषा निष्ठा — इत्येतद्द्वयं दिदर्शयिषुः आख्यायिकां प्रणयति ॥

ब्राह्मणान्तरमादाय तस्य पूर्वेण संबन्धं प्रतिजानीते —

श्वेतकेतुरिति ।

कोऽसौ संबन्धस्तमाह —

खिलेति ।

तत्र कर्मकाण्डे ज्ञानकाण्डे वा यद्वस्तु प्राधान्येन नोक्तं तदस्मिन्काण्डे वक्तव्यमस्य खिलाधिकारत्वात्तथा च पूर्वमनुक्तं वक्तुमिदं ब्राह्मणमित्यर्थः ।

वक्तव्यशेषं दर्शयितुं वृत्तं कीर्तयति —

सप्तमेति ।

समुच्चयकारिणो मुमूर्षोरग्निप्रार्थनेऽपि किं स्यादित्याशङ्क्याऽऽह —

तत्रेति ।

अध्यायावसानं सप्तम्यर्थः ।

सामर्थ्यमेव दर्शयति —

सुपथेतीति ।

विशेषणवशाद्बहवो मार्गा भान्तु किं पुनस्तेषां स्वरूपं तदाह —

पन्थानश्चेति ।

तत्र वाक्यशेषमनुकूलयति —

वक्ष्यति चेति ।

संप्रत्याकाङ्क्षाद्वारा समनन्तरब्राह्मणतात्पर्यमाह —

तत्रेति ।

उपसंह्रियमाणां संसारगतिमेव परिच्छिनत्ति —

एतावती हीति ।

दक्षिणोदगधोगत्यात्मिकेति यावत् ।

कर्मविपाकस्तर्हि कुत्रोपसंह्रियते तत्राऽऽह —

एतावानिति ।

इतिशब्दो यथोक्तसंसारगत्यतिरिक्तकर्मविपाकाभावात्तदुपसंहारार्थ एवायमारम्भ इत्युपसंहारार्थः ।

अथोद्गीथाधिकारे सर्वोऽपि कर्मविपाकोऽनर्थ एवेत्युक्तत्वात्परिशिष्टसंसारगत्यभावात्कथं खिलकाण्डे तन्निर्देशसिद्धिरत आह —

यद्यपीति ।

कस्तर्हि विपाकस्तत्रोक्तस्तत्राऽऽह —

शास्त्रीयस्येति ।

तत्र सुकृतविपाकस्यैवोपन्यासे हेतुमाह —

ब्रह्मविद्येति ।

अनिष्टविपाकात्तु वैराग्यं सुकृताभिमुख्यादेव सिद्धमिति न तत्र तद्विवक्षा । इह पुनः शास्त्रसमाप्तौ खिलाधिकारे तद्विपाकोऽप्युपसंह्रियत इति भावः ।

प्रकारान्तरेण संगतिं वक्तुमुक्तं स्मारयति —

तत्रापीति ।

शास्त्रीयविपाकविषयेऽपीत्यर्थः ।

उत्तरग्रन्थस्य विषयपरिशेषार्थं पातनिकामाह —

तत्रेति ।

लोकद्वयं सप्तम्यर्थः ।

प्रागनुक्तमपि देवयानाद्यत्र वक्तव्यमिति कुतो नियमसिद्धिस्तत्राऽऽह —

तच्चेति ।

वक्तव्यशेषस्य सत्त्वे फलितमाह —

इत्यत इति ।

यत्तर्हि प्रागनुक्तं तद्देवयानादि वक्तव्यं प्रागेवोक्तं तु ब्रह्मलोकादि कस्मादुच्यते तत्राऽऽह —

अन्ते चेति ।

शास्त्रस्यान्ते चेति संबन्धः ।

इतश्चेदं ब्राह्मणमगतार्थत्वादारभ्यमित्याह —

अपि चेति ।

एतावदित्यात्मज्ञानोक्तिः । अमृतत्वं तत्साधनमिति यावत् । चकारादुक्तमित्यनुषङ्गः । ज्ञानमेवामृतत्वे हेतुरित्युक्तोऽर्थस्तत्रेति सप्तम्यर्थः तदर्थो हेत्वपदेशार्थः ।

कथं पुनर्वक्ष्यमाणा कर्मगतिर्ज्ञानमेवामृतत्वसाधनमित्यत्र हेतुत्वं प्रतिपद्यते तत्राऽऽह —

यस्मादिति ।

व्यापारोऽस्ति कर्मण इति शेषः । सामर्थ्याज्ज्ञानातिरिक्तस्योपायस्य संसारहेतुत्वनियमादित्यर्थः ।

प्रकारान्तरेण ब्राह्मणतात्पर्यं वक्तुमग्निहोत्रविषये जनकयाज्ञवल्क्यसंवादसिद्धमर्थमनुवदति —

अपि चेत्यादिना ।

एतयोरग्निहोत्राहुत्योः सायं प्रातश्चानुष्ठितयोरिति यावत् । लोकं प्रत्युत्थायिनं यजमानं परिवेष्ट्येमं लोकं प्रत्यावृत्तयोस्तयोरनुष्ठानोपचितयोः परलोकं प्रति स्वाश्रयोत्थानहेतुं परिणाममित्येतदिति प्रश्नषट्कमग्निहोत्रविषये जनकेन याज्ञवल्क्यं प्रत्युक्तमिति संबन्धः । तत्रेत्याक्षेपगतप्रश्नषट्कोक्तिः ।

ननु फलवतोऽश्रवणात्कस्येदमाहुतिफलं न हि तत्स्वतन्त्रं संभवति तत्राऽऽह —

तच्चेति ।

कर्तृवाचिपदाभावादाहुत्यपूर्वस्यैवोत्क्रान्त्यादिकर्यारम्भकत्वान्न तत्र कर्तृगामिकफलमुक्तमित्याशङ्क्याऽऽह —

न हीति ।

किञ्च कारकाश्रयवत्त्वात्कर्मणो युक्तं तत्फलस्य कर्तृगामित्वमित्याह —

साधनेति ।

स्वातन्त्र्यासंभवादाहुत्योः स्वकर्तृकयोरेवमित्यादि विवक्षितं चेत्तर्हि कथं तत्र केवलाहुत्योर्गत्यादि गम्यते तत्राऽऽह —

तत्रेति ।

अग्निहोत्रप्रकरणं सप्तम्यर्थः । अग्निहोत्रस्तुत्यर्थत्वात्प्रश्नप्रतिवचनरूपस्य सन्दर्भस्येति शेषः ।

भवत्वेवमग्निहोत्रप्रकरणस्थितिः प्रकृते तु किमायातं तत्राऽऽह —

इह त्विति ।

किमिति विद्याप्रकरणे कर्मफलविज्ञानं विवक्ष्यते तत्राऽऽह —

तद्द्वारेणेति ।

ब्राह्मणारम्भमुपपादितमुपसंहरति —

एवमिति ।

संसारगत्युपसंहारेण कर्मविपाकस्य सर्वस्यैवोपसंहारः सिद्धो भवति तदतिरिक्ततद्विपाकाभावादित्याह —

कर्मकाण्डस्येति ।

यथोक्तं वस्तु दर्शयितुं ब्राह्मणमारभते चेत्तत्र किमित्याख्यायिका प्रणीयते तत्राऽऽह —

इत्येतद्द्वयमिति ।

सर्वमेव पूर्वोक्तं वस्तु दर्शयितुमिच्छन्वेदः सुखावबोधार्थमाख्यायिकां करोतीत्यर्थः ।