श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम स आजगाम जैवलिं प्रवाहणं परिचारयमाणं तमुदीक्ष्याभ्युवाद कुमारा३ इति स भो३ इति प्रतिशुश्रावानुशिष्टोऽन्वसि पित्रेत्योमिति होवाच ॥ १ ॥
श्वेतकेतुः नामतः, अरुणस्यापत्यम् आरुणिः, तस्यापत्यम् आरुणेयः ; ह - शब्दः ऐतिह्यार्थः ; वै निश्चयार्थः ; पित्रा अनुशिष्टः सन् आत्मनो यशःप्रथनाय पञ्चालानां परिषदमाजगाम ; पञ्चालाः प्रसिद्धाः ; तेषां परिषदमागत्य, जित्वा, राज्ञोऽपि परिषदं जेष्यामीति गर्वेण स आजगाम ; जीवलस्यापत्यं जैवलिं पञ्चालराजं प्रवाहणनामानं स्वभृत्यैः परिचारयमाणम् आत्मनः परिचरणं कारयन्तमित्येतत् ; स राजा पूर्वमेव तस्य विद्याभिमानगर्वं श्रुत्वा, विनेतव्योऽयमिति मत्वा, तमुदीक्ष्य उत्प्रेक्ष्य आगतमात्रमेव अभ्युवाद अभ्युक्तवान् , कुमारा३ इति सम्बोध्य ; भर्त्सनार्था प्लुतिः । एवमुक्तः सः प्रतिशुश्राव — भो३ इति । भो३ इति अप्रतिरूपमपि क्षत्त्रियं प्रति उक्तवान् क्रुद्धः सन् । अनुशिष्टः अनुशासितोऽसि भवसि किं पित्रा — इत्युवाच राजा । प्रत्याह इतरः — ओमिति, बाढमनुशिष्टोऽस्मि, पृच्छ यदि संशयस्ते ॥